________________
( ९५ ) नीरोगी न तयोर्दैहो-बलं बुद्धिर्न वा यतः । धर्मप्रेम न वा नीति-स्तत्र का लग्नयोग्यता ॥३४१॥ पतिधर्मो भवेत्पत्यौ, पत्नीषु गुणकर्मणी । संस्कारात्सहजादैक्यं, तत्र प्रणययोग्यता ॥ ३४२ ॥ घनाः पतिव्रताधर्माः, शुद्धप्रेम तदादिकम् । पतिचित्ताऽनुसारेण, पत्युर्या सहचारिणी ॥ ३३ ॥ नाऽन्यपुंसा स्मरेदलोगं, पत्युर्या सहचारिणी । पत्यो प्रेम शुभा दृष्टि-धर्मार्थ व्यक्तिसर्जनम् ॥३४४॥ या भूत्वा पतिरूपिणी खमनसः, कृत्वा स्वतां दूरतः, श्रीपत्युगुणसौष्ठवं ह्यभिलषे-सैवार्यनारी नवेत् । मर्यादा प्रतिपालयेन्निजपतो, नारोपयेद् दूषणं, निन्देन्नापि पतिं कदापि दयिता, पत्यो मनो वेशयेत् ३४५ पत्या साई या सुखे वाऽस्ति दुःखे, __ घोरापत्तौ स्वाऽपमानं सहेत। पत्नी सत्यं वर्तते गेहदेवी,
पत्या सार्द्ध विग्रहं नाऽऽचरन्ती . ॥ ३४६ ॥ सत्कुर्वन्ती पतिं प्रीत्या, वश्चयन्ती न वा पतिम् । बालाँश्च बालिका रक्षे-त्कुटुम्बादिप्रपालिनी ॥३४७n सन्तुष्य संस्मरेद्या मां, यथाऽऽयं व्ययमाचरेत् । मनोवाकायतो पुःखं, नार्पयेत्क्षुधमाहरेत् ॥३४८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com