SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ( ९६ ) वच्या न परपुंसा स्या-च्छीलं रक्षेत्सुखप्रदम् । न मुह्येच्चमरङ्गेन, शिक्षा मे या च मानयेत् ॥३४९॥ कर्मणा यो मिलेद्भर्ता, तत्रैव प्रीतिमाचरेत । पत्यौ धर्मेच्छया रागं, त्यागं चापि विवर्द्धयेत् ३५० वैराग्यं प्रतिरागं च, धर्म्यकामा समाचरेत् । मिथ्या कटु च न ब्रूया-उपासम्नान्सहेत सा ३५१ पत्युश्चिन्तां च जानीया-बोधयेत्तत्सहायकृत् । पत्याऽऽत्मनाचरेत्प्रेम, पतिसौख्यं च कामयेत् ३५२ गोपयेत्पतिमर्माणि, तद्विश्वासं न खण्डयेत् । । । श्वश्रूश्वशुरसन्मानं, गुरुसाधुगुणानरटेत् ॥३५३ ॥ मिथ्याग्रहाँस्त्यजेत्सर्वान्, गम्भीरा मां नजेत्परम । विस्मरेन्न सुखे दुःखे, चाभ्यस्येदपि साम्यतः॥३५४॥ न त्यजेजैनमर्यादां, सत्याऽसत्यं विचारयेत् । प्राणान्तेऽपि त्यजेन्नैव, धर्म कुर्याद्गृहक्रियाः॥३५५॥ सरागा प्रतिवेश्मिन्यां, परनिन्दा न वाऽऽचरेत् । गुणार्जवे कृतप्रीति-नक्तिर्मूर्तिमती यथा ॥ ३५६ ॥ बालकं पालयेत्प्रेम्णा, विद्यां नीतिं च शिक्षयेत् । सत्यं ब्रूयात्प्रियं ब्रूया-द्धमें पातिव्रते दृढा ॥३५७॥ वैद्यकज्ञौषधं कुर्याद्, गृहे सवस्तु पूरयेत् । विद्याद्गृहस्थिति सर्वी, समाना सुखदुःखयोः॥३५८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034988
Book TitlePanch Granth Sangraha - Sangh Karttavya - Prajasamaj Karttavya - Shok Vinashak - Chetakbodh - Sudarshana Subodh
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherMohanlal Himchand Shah
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy