SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ (९४) योग्यावस्थासु लग्नं स्या-त्सत्यं प्रेम यतो भवेत् । यत्राऽऽत्मा गुणकर्मभ्या-मेको लग्नं तदुच्यते ॥३३१॥ एकता यत्र चान्योन्यं, तल्लग्नं प्रणयात्मकम् । गुणान्विना यतो लग्नं, विप्नास्तत्र भवन्ति दि॥३३॥ नाधर्म्यकामतो लग्न-मात्मैक्ये लग्नमुत्तमम् । शुद्धप्रेम यतश्चाऽस्ति, तल्लग्नमवधारय ॥३३३ ॥ लग्नं गुणं विना हेयं, सत्सख्ये लग्नमुत्तमम् । प्रीतिं विना दहेञ्चित्तं, नेच्छालग्नं ततः कथम् ॥३३॥ पत्नी दासी पतिर्दास-औदासीन्यं ततो द्वयोः । मयि यत्र न विश्वासः, का लग्नाशा ततो जवेत् ३३५ देहलग्नं पशोस्तुल्यं, मेलो न गुणकर्मणाम् । नोन्नतिः पशुलनेन, शुद्धीत्या सुखं हितत् ॥ ३३६ ॥ स्वार्थः परस्परं यत्र, न यत्र परमार्थता । यत्राऽधार्मिककामाशा, तत्र पत्नी न वा पतिः ३३७ पृथक् कीर्त्यभिलाषः स्या-दपमानं सहेत न । भवेदन्योन्यतो निन्दा, तत्र लग्नं न शोजते॥३३८॥ परस्परं मनोनेदः, खेदः क्लेशस्तथा भवेत् । नान्योन्येषु मिलेञ्चित्तं, तत्र किं लग्नमुत्तमम् ॥३३९॥ व्यभिचारो यतो लग्ने, सुखिनो न नरास्ततः। गुणकर्म विना पुत्रा, जायन्ते दासदुःखिनः ॥३४०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034988
Book TitlePanch Granth Sangraha - Sangh Karttavya - Prajasamaj Karttavya - Shok Vinashak - Chetakbodh - Sudarshana Subodh
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherMohanlal Himchand Shah
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy