________________
कुरु देवसमान्बाला-वृणु निर्मिस्वतन्त्रताम् । बलं विद्याऽथ साम्राज्यं, जैनधर्मस्य जायते ॥३२१॥ भोगः शक्तिर्दया दानं, बालसंघे निरोगिता। दुर्गुणव्यसनादूरं, तत्र शक्तिः प्रजायते ॥ ३२ ॥ बाले स्वतन्त्रता प्रेम, विद्यारोग्यबलानि च । सर्वनीतिकलास्ताभि-मिथ्यागर्वो न जायते ॥३२३॥ स्थित्वा गुस्कुले विद्या, विद्यार्थी सेवयाऽऽप्नुयात् । धर्माचार्य विनीतः स्या-त्कदाचिन्न वदेन्मृषा॥३२४॥ लभेत विनयाद्विद्या, धर्माचार्य च सेवयेत् । ज्ञापयेद्गुरुदेवस्तं, मानवानां शुभाः क्रियाः ॥३२५॥ जैनधर्मस्य वेदाँश्च, रहस्यं ज्ञापयेत्स्फुटम् । बालिकाः शिक्षयेदेवं, विनयं प्रेमसेवनम् ॥३२६ ॥ लीपिभाषाक्रियाज्ञानं, नानाज्ञानं च शिक्षयेत् । शिक्षयेत्तं स्मरेद्याव-द्विद्यार्थी जायते महान् ॥३२७॥ विद्यार्थिगुरुसाहाय्या-जायते सत्यमुन्नतिः। पूज्योपकारको देवो-धर्माचार्योऽस्ति शीर्षवत् ॥३२८॥ हस्तौ बध्वा प्रणम्योऽसौं, ध्यानं धर्मगुरोः कुरु । पठ सर्वकलाः प्रेम्णा, गुरुतः स्वानुभूतितः ॥३२९ ॥ विद्धि गुरुकुले वासं, बालानामष्टवर्षतः । वसेयुर्ब्रह्मचर्येण, गुर्वीपाश्र्थे च वालिकाः ॥ ३३० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com