SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ प्रख्याता बालके तात-गुरुमात्रनुसारिता । माता शिक्षकतुल्याऽस्ति, पाठयन्ती सुतान्गृहे ३११ बाल्ये विहितसँस्कारा-स्तादृशःसारउद्भवेत् । पितरो भाविनो बालाः, शिशुरेव महद्धनम् ॥३१२॥ बालो भूपस्तथा देवो-बालकान्नज शिक्षणैः । देशोदयोधनं बालो-नानानाषां च शिक्षय ॥३१३॥ वित्तचित्तवपुश्शक्ति-र्बाले व्याप्नोति वेगतः । गुणिपुत्रास्ततः स्वर्ग-देशद्रव्याणि बालकाः ॥३१॥ बालसंघोदये याते, दुष्कृत्यं याति दूरतः। बालकान्कुरु वीराँस्त्वं, संग्रहाण स्वतन्त्रताम् ॥३१५॥ उत्सर्गेणोदये धर्म-आपद्धर्मस्तु सङ्कटे । धर्मा उन्नतिकर्माणि, जायते शर्म तत्कृतौ ॥३१६॥ नीतिज्ञानं च बालानां, कर्मज्ञानं च शिक्षय । ज्ञानं च सर्वधर्माणां, तेन सच्छक्तिरुद्भवेत् ॥३१७॥ यच्छक्तिस्तस्य राज्यं स्या-त्साहाय्यं कुरु शिक्षणे । जैनधर्मस्य रक्षायां, प्राणार्पणसुशिक्षणम् ॥३१८ ॥ न भयैः परतन्त्रः स्या-स्क्रियाज्ञाने स्वतन्त्रता । प्राणान्ते न त्यजेन्न्याय, स्वधर्मव्रतपालकः ॥३१९॥ दुष्टैः पराजितो न स्या-देवं बालो यतो भवेत् । धर्मराज्यं ततो विद्या,-सुखं सम्यक्स्वतन्त्रता ३२० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034988
Book TitlePanch Granth Sangraha - Sangh Karttavya - Prajasamaj Karttavya - Shok Vinashak - Chetakbodh - Sudarshana Subodh
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherMohanlal Himchand Shah
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy