________________
( ८६ ) संधैक्ये वर्द्धते धर्मो-भेदेनाऽधर्म उद्भवेत् । अभेदैरैक्यवृद्धिः स्या-दृद्धिर्विद्या बलं मतिः ॥२५३॥ सर्वप्रजासु यत्रैक्यं, तत्रैकोऽस्मि विराडहम् । ऐक्यं सेवस्व मत्प्रेम्णा, नेदं हानिकृतं त्यज ॥२५॥ उच्चनीचौ न वा ज्ञेयौ, नृजातो लिङ्गभेदतः। आत्मभावं समादाय, निश्चयेनैक्यमाचर ॥ २५५ ॥ न नामरूपेषु विमोहनीयं, __ संधैकताया इदमस्ति गुह्यम् । रूपाभिधामोहनिवारणं च,
सुदर्शने धारय मत्सुशिक्षाम् ॥२५६ ॥ नामोपाधिभिदं त्यक्त्वा, विष्याऽऽत्मानं तु सत्तया । सर्वाऽऽत्मा सत्तया त्वेको-ऽवेहि व्यापकभावतः २५७ विद्धि सर्वान्नराँस्तुल्या-नामरूपे न मानय । नामरूपेषु नो खिन्द, खेदं निस्सारयैक्यतः ॥२५८ । मोहं विस्मृत्य मल्लीना, एकभावेन मां वह । ऐक्ये धर्मस्त्वनिन्नोऽस्ति, विद्ध्याऽऽत्मनि सुदर्शन २५९ सर्वाऽऽत्मान श्चमत्तुल्याः, कश्चिद्भेदो न तत्र हि । आत्मदृष्ट्या वसैक्ये त्वं, लभन्तां मनुजाः सुखम् २६० कुरु कमैक्यतः सर्व, मन्तनिष्कामवृत्तिना । संघस्यैक्योपयोगं तु, लोका दुष्टं विधत्त न ॥२६१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com