________________
(८५) गच्छेत्कालानुसार यो, मदाज्ञाराधको गुणी । संधैक्यार्थ सदा मुञ्च, क्रियावेषकदाग्रहम् ॥२४५॥ देशकालानुसारेण, लाभाऽलाभस्य बोधतः। ज्ञात्वा कालं वसंघो, मदाज्ञाधारकश्च सः ॥२४६॥ संघाद्यैक्यं च यत्राऽस्ति, तत्र शान्तिः सुखं महत्। विक्षेपो यदि वाऽऽगच्छे, तं निवार्य बली भवेत् २४७ विक्षेपाणां विनाशेन, स्वाऽऽत्मभोगप्रदानतः । मद्भक्तिं विन्दते जक्ताः, संघादिक्लेशनाशनात् ॥२१८॥ मनोवचःकायधनादिभोग
प्रदानतो योग उदेति नूनम् । संघादिकैक्ये स्वहितं च बुध्वा,
व्रजन्तु चैक्येन नराश्च नार्यः ॥ २४९ ॥ नैक्यं विना सुखं किञ्चि-न्मद्भक्तिरैक्यमेव हि । सर्वस्वार्थान्परित्यज्य, मानं त्यक्त्वैक्यमाचर ॥५॥ यूयं तु संघ एव स्थ, म्रियध्वं संघहेतवे । संधैक्ये मां च पश्यन्तु, सर्वशक्तेरिदं रहः ॥ ६५१ ॥ यत्रैकता स्वर्ग उदेति तत्र,
यत्राऽस्ति नैक्यं नरकोऽस्ति तत्र । यत्रैकता तत्र विशालशक्ति
भेंदो यत स्तत्र विशालखेदः ॥२५२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com