________________
( ८४ ) जावप्रमाणसाहाय्यं, मत्कृतं विन्दते जनाः। विना रूपाभिधोपाधीन्, रमन्ते मयि ये जनाः २३५ लभन्ते ब्रह्मचर्येण, ब्रह्म तद्धाम मामकम् । नास्तिकैः सह संगेन, शीलनाशो नवेभ्रुवम् ॥२३६॥ नान्तर्बन्धं वह स्वं च, मयि चित्तं निवेशय । कोटिलिप्सावलोकेन, व्यभिचारी न मज्जनः ॥२३७॥ भूत्वा मद्भजनाऽऽसक्ता जीवन्तु ब्रह्मचर्यतः। सर्वत्र मत्समं जावं, धृत्वैक्यं च प्रवर्तताम् ॥२३८॥ आत्मदानै हरन्भेदं, संघादावेकतां कुरु । मत्संघ ऐक्यमारूढो-धर्मवृद्धिं करोतु सः ॥ २३९ ॥ दखा च स्वार्थभोगाँस्त्वं, विधेहि योगसाधनम् । मां निर्भेदेन सेवस्व, त्यज संकुचितान्मतान् ॥२४॥ नरा नार्यः क्रियाज्ञाने-वर्तन्तां स्वस्वजावतः। देशप्रजासुखे सौख्यं, तदुःखाडुःखमाऽऽत्मनः॥२४१॥ ज्ञात्वैकीभूय वर्तन्तां, मिथ्यागर्व विधत्त न । राज्यं सत्तां धनं देहं, संधैक्याय विसृज्यत ॥२४२॥ भेदवन्मतमुन्मुच्य, जैनधर्म भजस्व च । विश्वासोमयि सत्प्रीति-जनत्वस्येतिलक्षणम् ॥२४३॥ मतक्रियादिनेदास्तान्, त्यज त्वं संघरागतः। विचार्य वर्तते संघ-एवं मच्छासने गुणः ॥ २४४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com