________________
(८७) स्वातन्त्र्यमस्ति संधैक्ये, विनैक्यं परतन्त्रता, महाजनस्य नीतिः सा, सैक्यरातिस्तु रक्षति ॥२६२।। मताचारविचाराभ्यां, वर्तन्ते स्वेच्छया नराः। यस्य येच्छा स तां कुर्य्या-तत्र क्लेशं न वाऽऽचर २६३ वर्तन्तां स्वतया लोका-ममाऽभेदे शुचः कुतः। यत्कालेनैक्ययोग्यं य-चिरोदानेन तत्कुरु ॥२६॥ दुर्जेदाँस्त्यज मत्प्रेम्णा, संघक्येन च मां भज। जीवनं स्याच संधैक्ये, राज्यादिरपि रक्ष्यते ॥२६५॥ रागतो द्वेषतो नाऽपि, पक्षं कुरुत कोविदाः !!। पक्षापद्धविनाशाय चैक्यं कुरुत पएिकताः! ॥२६६॥ एकोऽन्यस्य सहायः सन्, मद्भक्तः सच कथ्यते । हृदि मम परा भक्तिः, संघद्रोहं च नो कुरु ॥२६७ ॥ वर्द्धस्वैकोऽन्यसाहाय्यै-युष्यस्व पुष्टशत्रभिः । कली स्वातन्त्र्यमक्येन, चानैक्ये परतन्त्रता ॥२६८॥ पुणानां च संहारो-जैनधर्मस्य सम्मतः । आत्मप्रीतिं च जैनेषु, कुरु संघस्य रक्षणम् ॥२६९॥ जीवानाऽऽत्मसमान्विद्धि, वृत्तिं नाशय भैदिकीम् । न्यायात् पश्चान्न गंतव्यं, भक्तानां खार्पणं कुरु २७० संघ भोजय भावेन, चानन्दं वह सेवया । साधर्मिषु परं प्रेम, दीनेषु परमा दया ॥ २७१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com