________________
[ સિદ્ધિદાયક મંત્રસંગ્રહ त्रिपश्चमङ्ख्या तापमाना, सपाकृशानामपुनर्भवाय । अक्षीणलब्ध्या परमानदाता, स गौतमो यच्छतु वाञ्छितं मे ।६। सदक्षिणं भोजनमेव देयं, साधर्मिक सङ्घसपर्ययेति । कैवल्यवस्वं प्रददो मुनीनां, स गौतमो यच्छतु वाञ्छितं मे १७ शिवं गते भर्तरि बीरनाथे, युगप्रधानत्वमिहैव मत्वा । पट्टाभिषेको विदधे सुरेन्द्रः, स गौतमो यच्छतु वाञ्छितं मे ।८। श्रीगौतमस्याष्टकमादरेण, प्रबोधकाले मुनिपुङ्गवा ये । पठन्ति ते सूरिपदं च देवानन्दं लभन्ते नितरां क्रमेण ॥९॥
श्रीमन्त्राधिराजर्भितश्रीगौतमस्वामीस्तवनम् । नमोऽस्तु श्रीहीधृतिकीर्तिबुद्धिलक्ष्मीविलासैकनिकेतनाय । श्रीवीरपट्टाम्बरभास्कगय लोकोत्तमाय प्रभुगौतमाय । १॥ *कारमक्षीणमहानसानां श्रीमन्तमुज्जृम्भतपःप्रभावैः। होमन्तमात्मानुगवन्दनेनाऽर्हन्तं नमस्यामि तमिन्द्रभूतिम् ॥ २॥ उन्निद्रसौवर्णसहस्रपत्रगर्भस्थसिंहासनसंनिषण्णम् ।। दिव्यातपत्रं परिवीज्यमानं सच्चारैश्वाऽमरराजसेव्यम् ॥ ३॥ कल्पद्रुचिन्तामणिकामधेनुममाननामानममानशक्तिम् । अनेकलोकोत्तरलब्धिसिद्धं श्रीगौतमं धन्यतमाः स्मरन्ति ॥ ४॥ एकैव षड्दर्शनकनीनिका पुगणवेदागमजन्मभूमिका । गानन्दचिद्ब्रह्ममयी सरस्वती सुरेन्द्रभृतेश्चरणोपसेविनी ॥५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com