________________
સ્તવ્યસંગ્રહ ]
प्रातरेव समुत्थाय, यः स्मरेजिनपञ्जरम् । तस्य किश्चिद् भयं नास्ति, लभते सुखमम्पदः ॥ २२ ॥ जिनपञ्जरनामेदं, यः स्मरेदनुवासरम् ।
कमलप्रभसरीन्द्रश्रियं स लभते नरः ॥२३ ॥ प्रातः समुत्थाय पठेत् कृतज्ञो, यः स्तोत्रमेनजिनमञ्जरस्य । आसादयेत् सः कमलप्रभाख्यो, लक्ष्मी मनोवाञ्छितपूरणाय॥२४॥ श्रीरुद्रपल्लीयवरेण्यगच्छे, देवप्रभाचार्यपदाजहंसः । वादीन्द्रचूडामणिरेप जैनो, जीयादसौ श्रीकमलप्रभाख्यः॥२५।।
श्रीगौतमस्वाम्यष्टकम् । श्रीहन्द्रभूति वसुभूतिपुत्र, पृथ्वीमवं गौतमगोत्ररत्नम् । स्तुवन्ति देवासुरमानवेन्द्राः, स गौतमो यच्छतु वाञ्छिनं मे ॥१॥ श्रीवर्धमानात त्रिपदीमवाप्य, मुहर्त्तमात्रेण कृतानि येन । अङ्गानि पूर्वाणि चतुर्दशाऽपि, म गोतमो यच्छतु वाञ्छितं माग श्रीवीरनाथेन पुग प्रणीतं, मन्त्रं महानन्दमुखाय यस्य । ध्यायन्त्यमी मरिवगः ममग्राः, म गोतमो यच्छतु वाञ्छितं मे ।३। रस्यामिधानं मुनयोऽपि सर्वे, गृहन्ति मिक्षाभ्रमणस्य काले। मिष्टानपानाम्बरपूर्णकामाः, स गौतमो यच्छतु वाञ्छितं मे ॥४॥ अष्टापदाद्रौ गगने स्वशक्त्या, ययौ जिनानां पदवन्दनाय । निशम्य तीर्थाविश्यं सुरेभ्यः, स गौतमो यच्छतु वाञ्छितं मे ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com