________________
સ્તોત્રસંગ્રહ ]
अम्बिकादेवीस्तोत्रम् ।
वैतालोयवृत्तम् जय जैनमताऽनुरक्षिके ! जय दीव्याम्बरधारिणि ! क्षितौ । जय दीर्णकलिप्रभावित ! जय संपतिनिधानकेऽम्बिके ! ॥१॥ त्वदरं विनिपातसंक्षयो-जिनराजप्रभया प्रभाविनि ! । करुणालयवासिनि ! प्रियं, कुरु सर्वत्रशरीरिणां सदा ॥२॥ विदितो ललिताम्बिके ! तव, महिमाऽमेश्गुणः शुभात्मिके ! । विनिवारय मङ्गलेता, प्रविधेहि प्रचुरश्रियं नृणाम् ॥३॥ नरदेवनताधिोऽम्बिके ! तव दाक्षिण्यमनल्पशर्मदम् ।। शरणं क्रियते त्वदीयकं, चरणं विघ्नविघातकारणम् ॥४॥ विफलं तव सेवनं न वै, श्रुतदृष्टं च मयाम्बिके ! जने । जनतारिणि ! मानहारिणि ! हर संकटपरम्परां सदा ॥५॥ जिनशासनसेविनां नृणां, विकृति व कदापि जायते । विपदा पदमर्थहारकं, त्वयि गोज्यां कुन एव संमवेत् ॥६॥ जय नेमिजिनेन्द्रशासनाऽवननिष्ठे ! वसिंहवाहने ! । करसंस्थितचूतलुम्बिके ! सुतयुगलेन विराजितेऽम्बिके ! ॥ ७॥ विमलार्थपतेः सहायिका, शुमधर्माऽभिरतस्य गीयसे । अचलाऽर्बुदरक्षिाम्बिके ! श्रुतसम्यक्त्वधरा प्रभाविनी ॥ ८॥ गुरुभक्तिरतात्मना सदा, मुनिहेमेन्द्र सुधाब्धिना कृतम् । समभावयुजाऽम्बिकाऽष्टकं, जनताबाणविधानहेतुकम् ॥९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com