________________
[સિદ્ધિદાયક માસંગ્રહ पद्मावत्यान्वितं वामे, धरणेन्द्रेण दक्षिणे । परितोऽष्टदलस्थेन मन्त्रराजेन संयुतम् ॥२० । अष्टपत्रस्थितैः पञ्चनमस्कारस्तथा त्रिभिः । ज्ञानाद्यैर्वेष्टितं नाथं, धर्मार्थकाममोक्षदम् ॥२१॥ शतषोडशदलारूढं, विद्यादेवीमिरन्वितम् । चतुर्विशतिपत्रस्थं, जिनं मातृसमावृतम् ॥ २२ ॥ मायावेष्ट्यत्रयाग्रस्थं, क्रौंकारसहितं प्रभुम् । नवग्रहावृतं देवं, दिक्पालैर्दशभिर्वृतम् ॥२३ ।। चतुष्काणेषु मन्त्राद्य-चतुर्बीजान्वितैर्जिनैः । चतुरष्टदशद्वितिद्विधाङ्कसंज्ञकैर्युतम् ॥२४ ॥ दिक्षु क्षकारयुक्तेन, विदिक्षु लाङ्कितेन च। चतुरस्रेण वज्राङ्क-क्षितितत्त्वे प्रतिष्ठितम् ॥२५॥ श्रीपार्श्वनाथमित्येवं, या समाराधयेजिनम् । तं सर्वपापनिर्मुक्तं, भजते श्रीः शुभप्रदा ॥२६॥ जिनेशः पूजितो भक्त्या, संस्तुतः प्रस्तुतोऽथवा । ध्यातस्त्वं यः क्षणं वापि, सिद्धिस्तेषां महोदया ॥२७॥ श्रीपार्श्वमन्त्रराजान्ते, चिन्तामणिगुणास्पदम् ।। शान्तिपुष्टिकरं नित्यं, क्षुद्रोपद्रवनाशनम् ॥२८॥ ऋद्धिसिद्धिमहाबुद्धि-धृतिश्रीकान्तिकीर्तिदम् । मृत्युञ्जय शिवात्मानं, जपनानन्दितो जनः ॥२९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com