________________
સ્તોત્રસંગ્રહ ]
ॐकाराकृतिव्यक्तो, व्यक्तरूपस्त्रयीमयः । ब्रह्मद्वयप्रकाशात्मा, निर्भयः परमाक्षरः ॥ १० ॥ दिव्यतेजोमयः शान्तः, परामृतमयोऽच्युतः। आद्योऽनायः परेशानः, परमेष्ठी परः पुमान् ॥ ११ ॥ शुद्धस्फटिकसङ्काशः, स्वयम्भूः परमाच्युतः। व्योमाकारस्वरूपश्च, लोकालोकावमासकः ॥१२॥ ज्ञानात्मा परमानन्दा, प्राणारूढो मनःस्थितिः । मनःमाध्यो मनोध्येयो, मनोदृश्यः परापरः ॥ १३ ॥ सर्वतीर्थमयो नित्यः, सर्वदेवमयः प्रभुः । भगवान् सर्वतत्त्वेशः, शिवश्रीसौख्यदायकः ॥ १४ ॥ इतिश्रीपार्श्वनाथस्य, सर्वज्ञस्य जगद्गुरोः । दिव्यमष्टोत्तरं नाम, शमित्र प्रकीर्तितम् ॥ १५॥ पवित्रं परमं ध्येयं, परमानन्ददायकम् । मुक्तिमुक्तिप्रदं नित्यं, पठते मङ्गलप्रदम् ॥ १६ ॥ श्रीमत्परमकल्याण-सिद्धिदः श्रेयसेऽस्तु वः । पार्श्वनाथ जिनः श्रीमान्, भगवान् परमः शिवः ॥ १७ ॥ घरणेन्द्रफणच्छबालकृतो वः श्रियं प्रभुः । दद्यात् पावतीदेगा, समधिष्ठितशासनः ॥ १८ ॥ ध्यायेत् कमलमध्यस्थ, श्रीपार्श्वजगदीश्वरं । ॐ ही श्रीः हः समायुक्तं, केवलज्ञानमास्करम् ॥१९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com