________________
ब्राह्मणं, भाष्यं च] GOVERNMENT ORIENTAL LIBRARY, MYSORE
Correct or incorrect
Letters in a line-72.
Age of Ms.-Old.
Condition of Ms. - Good.
उपक्रम:
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ तत्कटाक्षेण तदूपं दधदुक्कमहीपतिः । आदिशत्सायणाचार्य वेदार्थस्य प्रकाशने । ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसङ्ग्रहात् । कृपालुस्सायणाचार्यो वेदार्थं वक्तुमुद्यतः ॥ व्याख्यातावृग्यजुर्वेदौ सामवेदेऽपि संहिता | व्याख्याता ब्राह्मणस्याद्य व्याख्यानं सम्प्रवर्तते ॥ अष्टौ हि ब्राह्मणग्रन्थाः प्रौढब्राह्मणमादिमम् । विंशाख्यं द्वितीयं स्यात् ततस्सामविधिर्भवेत् ॥ आर्षेयं देवताभ्यायो भवेदुपनिषत्ततः । संहितोपनिषद्वंशग्रन्था अष्टावितीरिताः ॥
749
Correct.
Complete or incomplete-Complete.
तत्र महाब्राह्मणषड्विंशाख्ययोर्ग्रन्थयोर्यज्ञाधिकारिणां स्वर्गादिफलप्राप्तये एकाहाहीनसत्रात्मका महाक्रतवः प्रतिपादिताः । अथास्मिन् सामविधानाख्ये तृतीये ब्राह्मणग्रन्थे तेष्वनधिकृतानां वक्ष्यमाणानां पृश्निवैखानसादीनां तेष्वशक्तानां अन्येषां शुद्धयर्थं कृच्छ्रादिप्रायश्चित्तानि तैरपहृतपाप्मनां स्वर्गादिफलप्राप्तये जप्यानि बहुविधान्याधानाग्निहोत्रादिप्रत्याम्नायरूपाणि सामानि विधास्यन्ते । अत एवास्य सामविधानमिति नाम सम्पन्नम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
आदौ तावत् प्रजापतिः कृत्स्नं भूतजातं सृष्ट्रा तस्य सामोपजीवनं प्रायच्छदिति प्रतिपादयिष्यमाणत्वात्तदुपजीव्य भूतप्रपञ्चसृष्टिप्रतिपादनाय तत्प्रागवस्थानमाह - ब्रह्म ह वा इदमग्र आसीदिति ॥
www.umaragyanbhandar.com