________________
748
DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः
गार्हपत्येऽग्नौ जुहोतीति यत्तदेव प्रातस्सवनं प्राथम्यसाम्यात् । एवमन्यदपि । अत्रैवोदयनीयादिसम्पत्ति दर्शयति–'यदन्ना ददाति तेनोदयनीयस्योदयनीय(दवसानीयस्य)समाप्तयै' इति । अन्ना अन्नानि हवींण्याददातीति यत्तेनोदयनीयस्य एतदाख्यस्य कर्मणः उदवसानीयस्य च समाप्तयै कृतं भवतीत्यर्थः ॥ ___अग्निहोत्र एव मथनेऽग्नेरनुत्पादे विकल्पेन प्रायश्चित्तं दर्शयति'अथ यस्याग्निर्मथ्यमानो न जायेताहृत्यान्यस्मिन्नवकाशे जुहुयाहाह्मणस्य वा हस्तेऽजस्य वा कर्णे कुशस्तम्बे वाऽप्सु वा जुहुयात्' इति ॥ __अथ पुनर्यस्य यजमानस्य अग्निर्मथ्यमानो यदि न जायतेतिह (तर्हि) आहृत्य लौकिकमग्निमानीय अन्यस्मिन्नवकाशे आहवनीयाधारे व्याह. तिभिः जुहुयात् । लौकिकानेरप्यभावे ब्राह्मणस्य हस्ते जुहुयात् । एवम. न्यदपि व्याख्येयम् । तथाचाश्वलायनः-'अग्निहोत्राय कालेऽग्नावजायमानेऽन्यमानीय जुहुयुः पूर्वालाभ उत्तरोत्तरं ब्राह्मणपाण्यजकर्णदर्भस्तम्बाप्सु' इत्यादि ॥ प्रतिपाद्यविषयः___No. 138 तमे एतन्मूलकोशे प्रदर्शितानामंशानां ललितया वाक्यशैल्या विवरणमत्र भाष्ये दृश्यते ॥
वक्तव्यविशेषः
कोशेऽस्मिन्निदं भाष्यं पञ्चमप्रश्नगतासमग्रप्रथमखण्डान्तं दृश्यते, मुद्रितं च ।
No. 666 (4968/1).
सामविधानब्राह्मणभाष्यम्.
Sāınavidhānabrāhmaṇabhāșyam. Author-Sāyaṇācārya. Character-Nagari. Substance-Palin-leaf. Folios-1-62. Size-168 x 12 inches. Lines on a page-6.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com