SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ 742 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [àr:. तच्छिष्यपरंपराचरणक्रममनुरुध्य कुतो वा स्वगुरुनमस्कृत्यादिकं ग्रन्थादौ न प्राणैषीत् । अतोऽस्य माधवार्यस्य श्रीमद्रामानुजाचार्यशिष्यत्वे प्रमाणं गवेषणीयमिति ॥ _ अयं च वेंकटमाधवायः सायणीये ऋग्भाष्ये अष्टमाष्टकीयचतु. र्थाध्यायादौ "माधवभट्टास्तु-वि हि सोतोरित्येषनिन्द्राण्या वाक्यमिति मन्यन्ते । तथाच तद्वचनम् ‘इन्द्राण्यै कल्पितं हविः कश्चिन्मृगोऽदूदुषत् इन्द्रपुत्रस्य वृषाकपेर्विषये वर्तमानः । तत्रेन्द्रमिन्द्राणी वदतीति" इत्येतनामग्रहणपूर्वकमेतद्न्थानुवाददर्शनात् सायणार्यात्प्राक्तनैः केशवस्वामिदेवराजादिभिरप्येतन्नामोत्कीर्तनाच्च सायणार्यात्प्राचीन इति ज्ञायते ॥ अस्यां च वैकटमाधवीयव्याख्यायां पदानां घिवरणे अन्वयादौ च तत्र तत्र सायणीयभाष्याद्वैलक्षण्यमपि दृश्यते । तत्रेदं दिङ्मात्रं प्रदयते । यथा अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः । वृषायुधो न वध्रयो निरष्टाः प्रवद्भिरिन्द्राञ्चितयन्त आयन् ॥ (ऋक्संहिता 1-3-6) अस्येदं सायणीयभाष्यम् - "अनवद्यस्य गर्हणीयदोषरहितस्येन्द्रस्य सेनां प्रति अयुयुत्सन् वृत्रस्यानुचरा योद्धुमैच्छन् । तदानीं नवग्वा नवनीयगतयः स्तोतव्यचरित्राः, यद्वा अङ्गिरसां सत्रमासीननां मध्ये ये नवभिर्मासैरवाप्तफला उत्थितास्तेषां नवग्वा इति संज्ञा । 'नवग्वास्सुतसोमास इन्द्रं ' इत्यादिषु तथाऽभिहितत्वात् । क्षितयः मनुष्या अङ्गिरःप्रभृतयः अयातयन्त युद्धा. मिन्द्रं नानाविधैर्मन्त्रैः प्रोत्साहितवन्तः। इन्द्रे योद्धं गते सति निरष्टाः तेनेन्द्रेण निराकृता वृत्रानुचराः चितयन्तः स्वकीयामशक्ति ज्ञापयन्तः इन्द्रात् इन्द्रस्य सकाशात् प्रवद्भिः प्रवणैः पालायतुं सुशकैर्मागैः आयन् दूरे गतवन्तः । तत्र दृष्टान्तः-वृषायुधः वृषेण सेचनसमर्थेन पुंस्त्व. युक्तेन शूरेण सह युद्धं कुर्वन्तो वध्रयो न नपुंसका इव' इति ॥ ___अस्येदं वेंकटमाधवीयं विवरणम्-- "अयुयुत्सन् येऽसुरा योधयितुमिच्छावन्तः अवद्यरहितस्य इन्द्रस्य सेनामाश्रिता नवग्वाः क्षितयः तानयातयन्त हतवन्तः, नवभिमौसीस्सद्धिं गता नवग्वाः, प्रजननसमर्थो वृषभः तेन ताडिता वध्रयो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy