SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ संहिता, भाष्यं च GOVERNMENT ORIENTAL LIBRARY, MYSORE 741 वक्तव्यविशेषः-- एतद्विवरणप्रणेता माधवार्यः कौशिकगोत्रसम्भूतो वेंकटायसुन्दाः सूनुरिति तत्तदध्यायान्ते परिदृश्यमानैः इत्थं तृतीयमध्यायं व्याकरोत्प्रथमेऽष्टके। विश्वामित्रकुले जातो माधवस्सुन्दरीसुतः ॥ इत्थं चतुर्थमध्यायं व्याकरोत्प्रथमाष्टके । अष्टकस्य कुले जातो माधवो वेंकटात्मजः ॥ इति पञ्चममध्यायं व्याकरोत्प्रथमेऽष्टके । लोहितस्य कुले जातो माधवो वेंकटात्मजः ॥ इतीमं षष्ठमध्यायं व्याकरोत्प्रथमेऽष्टके। भरतस्य कुले जातो माधवो वेंकटात्मजः ॥ ऋगर्थदीपिका चेयं प्रथमश्चायमष्टकः । कर्ता श्रीवेंकटायस्य तनयो माधवाह्वयः ॥ इति पद्यैरवसीयते। अत्र कौशिकगोत्रस्य 'विश्वामित्राटकलोहित, इत्यादि प्रवरस्मरणात् 'विश्वामित्रकुले' 'अष्टकस्य कुले' 'लोहितस्य कुले' इति निर्देश इति प्रतिभाति । अनन्तशयनमुद्रितैतत्प्रथमाष्टक प्रथमाध्यायोपोद्धाते उपलब्धैतन्मातृकागततत्तन्थावलम्बनायं माधवार्यः माधवार्यस्य पौत्रः वेकटार्यसुन्दर्योः पुत्रो भवगोलदौहित्रः संकर्षणस्याग्रजो वेंकटगोविन्दयोजनकः चोलदेशीयकावेरीदक्षिणतीरस्थगोमदाख्यग्रामनिवास्यासीदिति निर्धारितम् । किंवदन्तीबलात् विशिष्टाद्वैतसिद्धान्तस्थापनाचार्यभगवद्रामानुजाचार्यशिष्यत्वं चास्याभ्यूहितम्॥ तत्रेदं चिन्तनीयम् -यतस्तत्रैवोपलब्धमातृकानुरोधेनैतद्न्थादौश्रीवेंकटार्यतनयो व्याचिकीर्षति माधवः । अक्संहितामस्य देवः प्रसीदतु विनायकः ॥ इति ग्रन्थकृत्प्रणीतमात्मनो विनायकप्रसादप्रार्थनपरं पद्यमेकं प्रकाशितं दृश्यते। न ह्येवं श्रीमद्रामानुजीयप्रणीतप्रबन्धेषु क्वचिदपि विनायकप्रसादप्रार्थनपरं पद्यमुपलभ्यते । यद्यपि श्रीमद्रामानुजीयैर्विष्वक्सेनप्रसादस्संप्रार्थ्यते, तथापि न स विष्वक्सेनो विनायकपदेन प्रतीयमानः प्रसिद्धः । किंच साक्षाद्रामानुजाचार्यशिष्यश्चेदयं ग्रन्थकार; Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy