________________
46 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेद:
वक्तव्यविशेषः
इदमिदानीं किञ्चित्सामसंहिताविषये संगृह्य प्रस्तूयते — ऋगादिवेदचतुष्टयान्तर्गतेयं सामसंहिता 'सहस्रवर्त्मा सामवेद:' इर्ति भगवत्पतञ्जल्यादिभिर्बहुशाखत्वेन निर्दिष्टा भगवद्वासुदेवेन 'वेदानां सामवेदोऽस्मि ' इति प्रशस्य गीता चेति नात्र विशेषतो वक्तव्यम् ॥
--
चरणव्यूहे पुनः - 'आसुरायणीया, वासुरायणीया, वार्तान्तवेया, प्राञ्जला, ऋग्वर्णभेदा, प्राचीनयोग्या, ज्ञानयोग्या, राणायनीया, शाठ्यायनीया, सात्यमुद्गला, खल्वला, महाखल्वला, लाङ्गला, कौथुमा, गौतमा, जैमिनीया' इत्यस्याः संहितायाः षोडशशाखाशेषत्वं अनध्यायायाध्ययनाच्छाखान्तरााणां वज्रेणाभिघाताद्विनाश इति चाभ्यधायि ॥
महाभाष्ये सात्यमुग्रीयेत्येकस्याः शाखाया नाम दृश्यते । तच्च सात्यमुद्गलायाः पर्यायनाम वा आहोस्विच्छाखान्तरनामधेयं वेति विमर्शनीम् ॥
सा चेयं सामसंहिता गानग्रन्थः तदाधाराचिकग्रन्थश्चेति द्विधा विभक्ता दृश्यते ॥
तत्राद्यो गानग्रन्थः वेदसामोहगानभेदेन द्वैविध्यमापन्नः । तत्र ऋगक्षराणां संस्कारकं गीत्यात्मकं यत्साम पूर्वार्चिकमूलकं तद्वेगसामेत्युच्यते । एतदेव वेदसाम गेयगानमिति व्यपदिश्यते । कैश्चित्तु ग्रामे - गेयगानं वेयगानमित्यपि व्यवहियते । उत्तरार्विकमूलकं च गीतिरूपमूहगानमित्यभिधीयते ॥
द्वितीयोऽप्यार्चिकग्रन्थः पूर्वार्चिकतत्परिशिष्टोत्तरार्चिकतत्परिशिप्रभेदैर्विभक्तः । पूर्वार्चिक एवच्छन्द आर्चिको योन्याचिंक इत्यपि व्यवहियते ॥
स चच्छन्दआर्चिकः षड्भिरध्यायैस्त्रिभिः पर्वभिर्विभक्तः । तत्र प्रथमाध्यायात्मके प्रथमपर्वण्यग्नेर्देवताया अनुकूलीकरणे उपयुक्ता मन्त्रा दृश्यन्ते । अत एवैतदाग्नेयं पर्वेत्यभिधीयते ॥
एवं द्वितीयाद्यध्यायत्रयात्मके ऐन्द्रे पर्वणि तत्तन्मन्त्रैरिन्द्रोऽनुकूलीक्रियते ।
पञ्चमाध्यायरूपे च पवमानपर्वणि सोमः पवमानाभिधेयः स्तूयते ।
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat