________________
संहिता] . GOVERNMENT ORIENTAL LIBRARY, MYSORE 47
षष्टाध्यायश्चारण्ये पाठ्य इत्यारण्यकपदेन व्यपदिश्यते सायणाचार्यैः । तत्र चन्द्राग्निसूर्याः स्तूयन्ते ॥
महानाम्नयार्चिकारण्यकार्चिकयोः पूर्वार्चिकमूलकतया तत्परिशिष्टरूपत्वं, माहानाम्नारण्यगानयोः पूर्वार्चिकपरिशिष्टगानरूपत्वं चाभ्युपागामि | कैश्चित्तु महानाम्नयारण्यकार्चिकावार्चेकभेदावभ्युपगम्य तद्गानद्वयमपि गानावान्तरभेदतया व्यवाहारि ॥
उत्तरार्चिके च आज्यपृष्ठादिस्तोत्रोपयुक्तानां त्रिवृत्पञ्चदशादिस्तोमानां निष्पादकानि पूर्वार्चिके सामोद्भवाय क्रममनादृत्यैकैकशोऽधीतासु ऋक्षु ऋग्द्वयऋक्रितयरूपाणि सूक्तानि पठ्यन्ते ॥ ___ऊह्यगानं चोत्तरार्चिकपरिशिष्टगानरूपमित्यभिधीयते । कैश्चित्तेतदेवोगानं गानावान्तरभेदरूपरहस्यगानमिति परिगण्यंत ॥
स्तोमस्याप्यार्चिकपरिशिष्टरूपत्वमित्यङ्ग्यकारि ॥
तथा-छन्दः आरण्यकः माहानाम्नः उत्तरश्चेति चत्वार आर्चिकग्रन्थाः । एकश्च स्तोभग्रन्थः । गेयं आरण्यं ऊहः ऊह्यं चेति प्रधानाश्चत्वारः, माहानाम्नं भारुण्डं तवश्यावीयं गायत्रं चेति चत्वारस्तेषामेव परिशिष्टरूपा इत्यष्टौ गानग्रन्थाः । इत्येवं त्रयोदशविधेयं संहितेति सामसंहितामेनामन्यथाऽपि विभजन्ति ॥
केचित्तु-आर्चिकरूपायास्संहिताया न सामवेदत्वं, जैमिन्याद्युक्तसामलक्षणस्य तत्राभावात् । किंतु गानग्रन्थानामेव सामवेदत्वमित्यभिप्रयन्ति ॥
कोशेऽस्मिन् सामसंहितार्चिकग्रन्थः पूर्वोत्तरार्चिकभागद्वयघटितस्समग्रो दृश्यते । कोशान्त च
"कौण्डिन्यान्वयजातेन श्रीनिवासस्य सूनुना। सामगश्रीनिवासन लिखितास्सोत्तरा ऋचः ॥ वत्सरे बहुधान्याख्ये चैत्र शुक्ले रवेर्दिने ।
द्वादशे श्रीनिवासेन लिखिता ह्युत्तरा त्वियम् ॥" इति लेखकेन पद्यद्वयं लिखितं दृश्यते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com