SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ 670 DESCRIPTIVE CATALOGUE OF SANSKRİT MSS. [: सावित्री जननी यस्य गायत्रीसरशी भुवि । जनकोऽन्नयसूरिः स्याब्रह्मज्ञानवतां वरः ॥ नारायणावधानीति पूर्वजो वेदवित्तमः। लक्ष्मीपतिर्मातुलस्स्यात्तवेदान्तवारिधिः ॥ श्रौते शास्त्रचतुष्टये वितरणे वाक्चातुरीकल्पने भक्तौ चन्द्रकलावतंसचरणे स्वीयान्वयात्तं भुवि । व्यातन्वन् प्रवराक्षतत्वमनिशं नंजुण्डनामा बुधो भावो यस्य विराजते कविकुलालंकारचूडामणिः ॥ यस्यां ब्रह्मपुरन्धिकापदललन्मञ्जीरशिक्षायितो विद्वन्मण्डलवाग्झरीकलकलः क्रीडाशुकाः शारिकाः। चम्पूनाटकचित्रबन्धरचनापाण्डित्यपारं गताः सेयं यस्य धरासुधाशनपुरी बालापुरी जन्मभूः ॥ सोऽयं पान्यकुलाग्रयवेकटसुधीशिष्याग्रगण्यः कृती सुब्रह्मण्य इति प्रथामुपगतो बाडालवंशोद्भवः। श्रीमन्नन्दिगिरीशदारविलसन्नेत्राञ्चलोद्वीक्षिको न्मीलनीलसरोजपुञ्जविलसद्दामावलीभूषितः ॥ नागाङ्कद्विपसिन्धुभिः परिमिते वर्षे कलौ पैङ्गले नाकाभ्यांगमिते व मासि शुभदे माघे दशम्यां तिथौ । वेदेषुद्विपसंख्यया सुविलसत्पद्यावलीमजुलां श्रीरुद्रोपनिषत्कभाष्यसराणि छन्दोमयीं व्यातनोत् ॥ इमां मम कृति नवां सरसवाक्सुधामाधुरी प्रसन्नहृदयां बुधाः प्रकटयन्ति ये वा भुवि । तदीयपदपङ्कजं गिरिवरात्मजापादुकाप्रसादकुसुमाळिवच्छिरसि सन्ततं न्यस्यते ॥ ॥ रुद्रामृततरङ्गिणी सम्पूर्णा ॥ पकली Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy