SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 669 श्रीरुद्रोपनिषत्कभाष्यसरणिं छन्दोमयीं कल्पितुं मातस्त्वां प्रणमामि भारति शिशोः स्वल्पाऽपि वाणी मम । पीयूषोद्गमकालमन्दरशिलासंघर्षजाग्रत्पयः पारावारतरङ्गपतिसदृशी भूयात्प्रसादात्तव ॥ ५॥ यत्सारभूतं तदुपासितव्यमितिश्रुतेः प्राक्तनटिप्पणीषु । मुख्यार्थमादाय करोम्यनेकरत्नेषु मुक्ताभिरिवाक्षमालाम् ॥ ६॥ भट्टभास्करमालोक्य विद्यारण्यमधीत्य च । आलोड्य रुद्रकल्पाधिमवेक्ष्यान्याश्च टिप्पणीः ॥ ७ ॥ बुधानां परितोषार्थ रुद्रामृततरङ्गिणीम् । श्रीरुद्रोपनिषद्याख्यां छन्दोरूपां मनोरमाम् ॥ ८॥ निन्दन्त्वद्य सहस्रशः कुमतयो नो सन्ति किं पण्डिताः सारमाः करुणालवालहृदयास्सन्तः क्षमामण्डले । संगृहन्तु दयां निधाय मयि ते स्वल्पामपीमां कृति यच्छृण्वन्ति च शारिकाशुकपिकव्याहारमप्याविलम् ॥९॥ ओम् ॥ श्रुतिस्मृतिपुराणानां श्रीरुद्रोपनिषत्सताम् । मता सर्वोत्तमत्वेन पठताममृतप्रदा ॥ १० ॥ उपसंहारः ये रुद्रा दिवि वर्तन्ते येषां वर्ष शरा मताः । वृष्टयनावृष्टिरूपेण ये पापान प्रन्ति सर्वदा ॥ शेषं पूर्ववदेव स्यात्सर्वमासीन्मनोहरम् । एतद्यजुत्रयं सर्वमेको मन्त्र इतीरितः ॥ ऋषिदेवल इत्युक्तः श्रीरुद्रो देवता मतः। ध्यानश्लोकादिकं सर्वं पूर्ववत्परिकीर्तितम् ॥ अन्नवृद्धिप्रदो मन्त्रो जातिसंस्मृतिदायकः । पुनश्चर्याविधिश्चेत्तु रुद्रकल्पार्णवेऽस्ति हि ॥ रुद्रामृततरङ्गिण्यां सुब्रह्मण्यस्य सत्कृतौ । एकादशस्तरङ्गोऽयमभवबुधहर्षदः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy