SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपसंहारः एवं सिद्धस्यामावास्यायां स्वाग्नौ कपिलाज्येनाष्टसहस्रं जहुयात् । अथर्वशिरःप्रयुक्तविधानेनाराधनं कुर्यात् । ततः कृत्या रक्ताङ्गी रक्तमूर्धजा रक्तनयनोत्पद्यते । पूर्वमेवाजारुधिरपूर्णाश्चतुरः कुभान्निधाय तर्पयेत्। अन्यथा स्वात्मानं नाशयेत् । तया चाभिमतं सर्व साधयेत् । अनेन मन्त्रेणाज्येनायुतं जुहुयात् । कालज्ञानमुत्पद्यते । कापिलेन पयसाऽप्रशतं जुहुयात् । जातिस्मरो भवेत् । ध्यानं पूर्ववत् ॥ इति भट्टभास्करविरचिते यजुर्वेदभाष्ये अग्निकाण्डे पञ्चमप्रपाठके ज्ञानयज्ञाख्ये श्रीरुद्रप्रश्ने एकादशोऽनुवाकस्समाप्तः ॥ प्रतिपाद्यविषयः-- तैत्तिरीयसंहितातुरीयकाण्डगतेऽस्मिन् एकादशानुवार्कापरिमित रुद्रप्रश्ने-प्रथमानुवाकेन रुद्रक्रोधशमनं द्वितीयादिभिरष्टभिरनुवाकैस्तदीयानां संहृत्युपकरणानां नमस्कृतिपूर्वकं प्रसादनं दशमैकादशाभ्यामभययाचनमित्यतर्क्सवमीभधायते । तस्यास्य रुद्रप्रश्नस्य पातकनिवृत्त्यभो. प्सितादिफलकत्यप्रदर्शनपूर्वकं होमजपपारायणादौ विनियोगं प्रदर्श्य तत्तन्मन्त्रार्थाः सम्यगस्मिन् भाष्ये सायणीयभाष्यतो विस्तरेणाभिहिता दृश्यन्ते ॥ वक्तव्यविशेषः___ एतद्भाष्यप्रणता भट्टभास्करमिश्रः सायणाचार्यात्प्राचीन एवेति विभाव्यते। अत एव माधयीयायां धातुवृत्तौ दधात्वर्थनिरूपणावसरे तैत्तिरीयसंहितापश्चमकाण्डीयद्वितीयप्रश्नगतद्वादशानुवाकीयभभास्क - रीयभाष्यग्रन्थोऽनूदितो दृश्यते । ततश्च मुद्रितेऽस्मिन् रुद्रभाष्योपोपोद्धाते 'तथाऽपि भट्टभास्करोऽयं माधवाचार्यान्न प्राचीन इति तु निश्चितमेव, इति लेखने प्रमाणं परिचिन्तनीयमिति प्रतिभाति ॥ इतोऽ. धिकं No. 110 तमकोशे द्रष्टव्यम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy