SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ 480 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. वेद: उपक्रमः भद्रं कर्णेभिरिति शान्तिः ॥ संनकाद्या योगिवर्या अन्ये च ऋषयस्तथा । प्रह्लादाद्या विष्णुभक्ता हनूमन्तमथाब्रुवन् ॥ वायुपुत्र महाबाहो किं तत्त्वं ब्रह्मवादिनाम् । पुराणेष्वष्टादशसु स्मृतिष्वष्टादशस्वपि ॥ चतुर्वेदेषु शास्त्रेषु विद्यास्वाध्यात्मिकेऽपि च । सर्वेषु विद्यादानेषु विघ्नसूर्येशशक्तिषु ॥ एतेषु मध्ये किं तत्त्वं कथय त्वं महावल ॥ हनुामान् होवाच उपसंहारः भरतं श्यामळं शान्तं रामसेवापरायणम् । धनुर्वाणधरं वीरं कैकेयीतनयं भजे ॥ शं धीजं तु समुद्धृत्य शत्रुघ्नाय नमोऽन्तकः । ऋष्यादयो यथापूर्व विनियोगो विनिग्रहे ॥ द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् । लवणासुरहन्तार सुमित्रातनयं भजे ॥ हं हनूमांश्चतुर्थ्यन्तहृदन्तो मन्त्रराजकः । रामचन्द्रऋषिः प्रोक्तो योजयेत् पूर्ववत् क्रमात् ॥ द्विभुज स्वर्णवर्णाभं रामसेवापरायणम् । मौञ्जीकौपीनसहितं मां ध्यायेद्रामसेवकम् ॥ इति ॥ . ॥ इतिरामरहस्योपनिषदि द्वितीयोऽध्यायः ॥ प्रतिपाद्यविषयः अत्र श्रीरामचन्द्रस्य परब्रह्मत्वानरूपणपूर्वकं तदुपासनोपयोगिनां श्रीरामद्वयक्षरादिमन्त्राणां ऋषिच्छन्दोदेवतान्यासादिप्रदर्शनसहितं मन्त्राथै विचार्य रामयन्त्रोद्धारक्रममाभिधाय एतन्मन्त्रजपमहिना फलावाप्ति श्वेत्येतत्सर्व हनुमता सनकादियोगिवर्यभ्यः प्रह्लादादिविष्णुभक्तेभ्यश्चाभिहितं दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy