________________
उपनिषत् ]
GOVERNMENT ORIENTAL LIBRARY, MYSORE
175
उपक्रम:
चिन्मयेऽस्मिन् महाविष्णौ ज्ञाते दाशरथे हरौ । रघोः कुलेऽखिलं राति राजते यो महिस्थितः ॥ स राम इति लोकेषु विद्वद्भिः प्रकटीकृतः । राक्षसा येन मरणं यान्ति स्वोद्रेकतोऽथवा ॥ रामनाम भुवि ख्यातमाभिरामेण वा पुनः । राक्षसान्मर्त्यरूपेण राहुमनसिजं यथा ॥ प्रभाहीनांस्तथा कृत्वा राज्यार्हाणां महीभृताम् । धर्ममार्ग चरित्रेण ज्ञानमार्ग च नामतः ॥ तथा ध्यानेन वैराग्यमैश्वर्य स्वस्य पूजनात् । तथा रात्यस्य रामाख्या भुवि स्थादथ तत्त्वतः ॥ रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि ।
इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ उपसंहारः
तन्मन्त्रस्मरणादेव निश्शेषं तत् प्रणश्यति । तत्तगुरूपदिष्टेन वर्त्मनाऽनुष्ठितं च यत् ॥ रामात्मा मनुरेवायं पापराशिविनाशकृत् । आब्रह्मबीजदोषश्च नियमातिक्रमोद्भवाः ॥ स्त्रीणां च पुरुषाणां स्युर्मन्त्रेणानेन नाशिताः । येषु येष्वपि देशेषु रामभद्रमुपासते ॥ दुर्भिक्षादिभयान्येषु न भवन्ति कदाचन । शान्तः प्रसन्नवरद अक्रोधो भक्तवत्सलः ॥ अनेन सदृशो मन्त्रो जगत्स्वपि न विद्यते । सम्यगाराधितो रामः प्रसीदत्येव सत्वरम् ॥ ददात्यायुष्यमैश्वर्यमन्ते विष्णुपदं च यत् ।।
तदेतदृचाऽभ्युक्तम्-तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसस्समिन्धते। विष्णोर्यत् परमं पदम् ॥ स मुक्तो भवति स मुक्तो भवति । शं नो मित्रः-आवद्विक्तारम् । ओं शान्तिः ३॥
॥ हरिः ओम् । रामोपनिषत् समाप्ता ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com