________________
उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 465
ओं नित्यशुद्धं वुद्धं निर्विकल्पं निरञ्जनं निराख्यातं अनादिनिधनमेकं तुरीयं यद्भुतं भवद्भविष्यत्परिवर्तमान सर्वदा अनवच्छिन्नं परं ब्रह्म । तस्माजाता परा शक्तिः स्वयंज्याीतरात्मिका। आत्मन आकाशस्स. म्भूतः। आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भयः पृथिवी । तेषां पञ्चभूतानां पतयः पञ्च सदाशिवश्वररुद्र ब्रह्माणश्चेति। तेषां ब्रह्मविष्णुरुद्राश्चोत्पत्तिस्थितिलयकर्तारः ॥ उपसंहारः
तैलधारामिवाभिन्नं दीर्घघण्टानिनादवत् । प्रणवस्य ध्वनिस्तद्यस्तदनं ब्रह्म चोच्यते ॥ ज्योतिर्मयं तदाऽयं स्यादवाच्यं बुद्धिसूक्ष्मतः । ददृशुर्ये महात्मानो यस्तं वेद स वेदवित् ॥ जाग्रनत्रद्वयोर्मध्ये हंस एव प्रकाशते । सकारः खेचरी प्रोक्ता त्वंपदं चेति निश्चितम् ॥ हकारः परमेशस्स्वात्तत्पदं चेति निश्चितम् । सकारो ध्यायते जन्तुर्हकारो हि भवेद्धवम् ॥ इन्द्रियैर्वध्यते जीवो ह्यात्मा चैव न बध्यते । ममत्वेन भवेजीवो निर्ममत्वेन केवलः॥
॥ इति योगचूडामण्युपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः
अत्र भूतभौतिकसृष्टिकथनपूर्वकं स्थूलसूक्ष्मप्रकृतिस्वरूपं निर्वर्ण्य प्रणवं प्रशस्य तद्गतवर्णदेवतामाहात्मयादिकं संगृह्योपपादितं दृश्यते ॥ वक्तव्यविशेषः
___सामशाखान्तर्गततया मुद्रितायां योगचूडामण्याख्यायामुपनिषदि दृश्यमानं प्रथमश्लाकमात्रमास्मन् कोशे आदौ दृश्यते । अन्यत्सर्व ततोविभिन्नमेव दृश्यते । नामधेयं त्वभिन्नं दृश्यते । मुद्रितायां त्वासनादिप्रतिपादनपरो महान् ग्रन्थराशिः पारदृश्यत इति मुद्रितलखितयोमिथो विभिन्नयोः किंनिवन्धनं नामधेयैक्यामिति परिचिन्तनीयम् । किंचयमुप. निषत् सामशाखान्तर्गतेति मुद्रितकोशे दृश्यते । अत्र तु आदावथर्वशाखी
* अत्र विष्णुपदं गलितमिति भाति. D.(.M.
30
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com