SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ 460 DESCRIPTIVE CATA LOGUE OF SANSKRIT MSS. वद: प्रतिपद्दिनतो काले अमावास्या तथैव च । पौर्णमास्यां स्थिरीकुर्यात् स च पन्था हि नान्यथा ॥ कामेन विषयाकाङ्क्षी विषयाकाममोहितः । द्वावेव संत्यजेन्नित्यं निरञ्जनमुपाश्रयेत् ॥ अपरं संत्यजेत्सर्वं यदीच्छेदात्मनो हितम् । शक्तिमध्ये मनः कृत्वा मनश्शक्तेश्च मध्यगम् ॥ मनसा मन आलोक्य न त्यजेत्परमं पदम् । मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् । मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् ॥ उपसंहारः अज्ञानात्तु चिदाभासो बहिस्तापेन तापितः । दग्धं भवत्येव तदा तूलपिण्डमिवाग्निना ॥ दहरस्थः प्रत्यगात्मा नष्टे ज्ञान ततः परम् । विततो व्याप्य विज्ञानं दहत्येव क्षणेन तु ॥ मनोमयं ज्ञानमयं सम्यक् दग्ध्वा क्रमेण तु । घटस्थदीपवच्छश्वत् अन्तरेव प्रकाशते ॥ ध्यायन्नास्ते मुनिश्चैवमा सुप्तेरा मृतेस्तु यः । जविन्मुक्तस्स विज्ञेयः स धन्यः कृतकृत्यवान् । जीवन्मुक्तपदं त्यक्ता स्वदेहे कालसात्कृते । विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं धुवं तदेव शिष्यत्यमलं निरामयम् ॥ इत्युपनिषत् ॥ इति योगकुण्डल्युपनिषदि तृतीयोऽध्यायः ॥ प्रतिपाद्यविषयः पद्मजशङ्करप्रश्नोत्तररूपायामस्यामुपनिषदि एतत्कोशदृश्यमाने तृतीयाध्याये-चित्तस्थिरीकरणोपायप्रदर्शपूर्वकं प्राणायामक्रमः संक्षेपेण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy