SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ 428 DESCRIPTIVE CATALOGUE OF SANSKRIT ISS. वेदः विजयः सर्वदा शान्तिः निश्चलत्वं विषयेन्द्रियनिग्रहश्च ते यमाः । गुरुभक्तिस्सत्यमार्गानुरक्तिस्सुखागतवस्त्वनुभवश्च तद्वस्त्वनुभवेन तुष्टिः निस्सङ्गता एकान्तवासः मनोनिवृत्तिः फलानभिलाषः वैराग्यभावश्च नियमाः ॥ उपसंहारः-- तल्लयाच्छुद्धौद्वतसिद्धिः । भेदाभावादतदेव परमतत्त्वम् । तज्ज्ञो बालोन्मत्तपिशाचवजडवृत्त्या लोकमाचरेत् । एवममनस्काभ्यासेनैव नित्यतृप्तिरल्पमूत्रपुरीषमितभोजनदृढाङ्गमजायीनद्रादृग्वायुचलनाभाव - ब्रह्मदर्शनाजातसुखस्वरूपसिद्धिर्भवति ! एवं चिरसमाधिजनितब्रह्मामृतपानपरायणोऽसौ संन्यासी परमहंसोऽवधूतो भवति । तदर्शनेन सकलजगत् पवित्रं भवति । तन्मातृपितृजायापत्यवर्ग च मुक्तं भवतीत्यु. पनिषत् ॥ पञ्चमं ब्राह्मणम् ॥ ॥ मण्डलब्राह्मणोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः___याज्ञवल्क्यरविमण्डलान्तस्थपरमपुरुषप्रश्नोत्तररूपायां ब्राह्मणपञ्चकेन विभक्तायामस्यामुपनिषदि प्रथमे ब्राह्मणे-राजयोगाङ्गानां यमनियमादीनां निरूपणपूर्वकं लक्ष्यत्रयं प्रकाशितम् ॥ द्वितीये ब्राह्मणे-राजयोगप्रभदरूपतारकावलोकनोपायभूतान्तर्लक्ष्यस्वरूपमुपवर्ण्य शाम्भव्यादिमुद्राः प्रकाश्य षण्मुखीकरणं जाग्रदाद्य. वस्थाश्च प्रदर्शिताः ॥ अमनस्काख्ये तृतीय ब्राह्मणे-राजयोगभेदो विवृता दृश्यंत ॥ तुरीये ब्राह्मणे नवचक्रषडाधारलक्ष्यत्रयव्योमपञ्चकानि योगिभिर वश्यक्षेयान्यभिहितानि ॥ पञ्चमे ब्राह्मणे--अमनस्कापराभिधानमनोलयरूपराजयोगभेदस्य फलं निरूपितं दृश्यते ॥ वक्तव्यविशेषः शुक्लयजुश्शाखीयेयमुपनिषत् ब्राह्मणपञ्चकामिका अस्मिन् कोशे समग्रा उपलभ्यते । मुद्रिता चेयमुपनिषत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy