________________
उपनिषत् ) GOVERNMENT ORIENTAL LIBRARY, MYSORE
Lines on a page-15.
Condition of Ms. - Good.
Letters in a line - 22.
Correct or incorrect-Correct. Complete or incompleteComplete.
Age of Ms.—Old.
उपक्रमः
399
ओं, भद्रं कर्णेभिरिति शान्तिः ॥ ओम्, आपो वा इदमासन् सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे भुसुण्डः समभवत् । तस्यान्तर्मनसि कामः समवर्तत । इद ँ सृजेयमिति । तस्माद्यत्पुरुषो मनसाऽभिगच्छति । तद्वाचा वदति । तत्कर्मणा करोति । तदेषाऽभ्युक्ता । कामस्तदग्रे समवर्तताधि | मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन् । हृदि प्रतीष्या कवयो मनीषेति । उपैनं तदुपनमति । यत्कामो भवति । य एवं वेद ॥
1
उपसंहारः
तद्वा एतत् परं धाम बृहज्जाबालोपनिषज्जपर्शालस्य, यत्र न सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न मृत्युः प्रविशति यत्र न दुःखानि प्रविशन्ति सदानन्दं परानन्दं शान्तं शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परमं पदं, यत्र गत्वा न निवर्तन्ते योगिनः । तदेतदृचाऽभ्युक्तम् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसस्समिन्धते । विष्णोर्यत्परमं पदम् ॥ ओं सत्यं, ओं 'सत्यम् । नस पुनरावर्तते न स पुनरावर्तते । औं सत्यम् ॥
इति मुक्तिश्रुत्यभिधेयायां बृहज्जाबालोपनिषदि षष्ठं ब्राह्मणम् ॥ ॥ बृहज्जाबालोपनिषदि पूर्वतापनीयोपनिषत् समाप्ता ॥
प्रतिपाद्यविषयः
अत्र सृष्टिक्रमः, ओंकारवाच्यस्य परमेश्वरस्य पञ्चमुखेभ्यः पञ्चवर्णानां गवां उत्पत्तिः, तत्तद्गोमयेन पञ्चविधानां भस्मनामुत्पत्तिः, भस्मोत्पादनक्रमः, तत्तन्नियमदेवताद्यपासनविधयः, भस्मस्नानभस्मोडूळनभस्मधारणप्रकाराः, तत्तत्फलानि, अधिकारिणश्च प्रतिपाद्यन्ते । आख्यायि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com