SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 339 यदा सर्वाणि भूतानि समाधिस्थोऽनुपश्यति । एकभूतः परेणासौ तदा भवति केवलः ॥ यदा पश्यति चात्मानं केवलं परमार्थतः । मायामानं जगत् कृत्स्नं तदा भवति निर्वृतिः ॥ एवमुक्ता स भगवान् दत्तात्रेयो महामुनिः । साङ्कृतिः स्वस्वरूपेण सुखमास्तेतिनिर्भयः ॥ ॥ दर्शनोपनिषदुत्तराङ्गचतुष्टयम् ॥ ॥ इति दर्शनोपनिषत्समाता ॥ प्रतिपाद्यविषयः सांकृतिदत्तात्रेयप्रश्नोत्तररूपायां खण्डदशकपरिमितायामस्यामुपनिषदिप्रथमखण्डे–योगाङ्गानां दशविधयमानां विस्तरेण प्रतिपादनं कृतम् ॥ द्वितीयखण्डे-योगाङ्गानां नियमानां विवरणं कृतम् ॥ तृतीयखण्ड-योगोपयुक्तानां नवविधासनानां स्वरूपं निर्णीतम् ॥ चतुर्थखण्डे-देहान्तर्गतानां नाडीनां स्थानानि विविच्य कथयित्वा प्राणापानादिवायूनां स्थानानि कार्याणि च निरूप्य संक्ष पत आत्मोपदेशः कृतः॥ पञ्चमखण्डे-नाडीनां शुद्धिक्रमः समासतः कथितः ॥ पष्टखण्डे-प्राणायामक्रमः, प्रणायामभेदाः सविस्तरं निरूपिताः । तत्फलानि च निरूपितानि ॥ सप्तमखण्डे–प्रत्याहारशब्दार्थोपवर्णनपूर्वकं प्रत्याहारक्रमो निरू पितः । तत्फलं च कथितम् ॥ अष्टमखण्डे–पञ्चविधधारणानिरूपणं कृतम् ॥ नवमखण्ड--ध्याननिरूपणं तपत्फलनिरूपणं च कृतम् ॥ दशमखण्डे-समाधिशब्दार्थ निरूप्य समाधिस्थित्यभ्यासक्रमो निरूपितः तत्फलं च निरूपितम् ॥ वक्तव्यविशेषः इयमुपनिषत् समग्राऽस्मिन् कोशे परिदृश्यते, सामशाखीयेति मुद्रिता च ॥ D.C.I. 22* Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy