________________
उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE
गुरुभक्तिसमायुक्तपुरुषज्ञो विशेषतः । एवं लक्षणसम्पन्नो गुरुरित्यभिधीयते ॥ गुशब्दस्त्वन्धकारस्स्यादुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वाद्रुरुरित्यभिधीयते ॥ गुरुरेव परं ब्रह्म गुरुरेव परा गतिः । गुरुरेव परा विद्या गुरुरेव परायणम् ॥ गुरुरेव पराकाष्ठा गुरुरेव परं धनम् । यस्मात्तदुपदेष्टाऽसौ तस्माद्गुरुतरो गुरुः ॥ इति । यस्सकृदुच्चारयति तस्य संसारमोचनं भवति । सर्वजन्मकृतं पापं तत्क्षणादेव नश्यति । सर्वान् कामानवाप्नोति । सर्वपुरुषार्थसिद्धिर्भवति । य एवं वेदेत्युपनिषत् ॥
॥ अद्वयतारकोपनिषत् समाप्ता ॥
प्रतिपाद्य विषयः --
अस्यामुपनिषदि अन्तर्बाह्यमध्यभेदेन त्रैविध्यमापन्नस्य लक्ष्यस्य विवरणपूर्वक स्वदेहान्तपर्तिज्योर्तिदर्शनापायः कथितः । पूर्वार्धोत्तरातया द्विधा विभक्तयोः तारकामनस्कयोगयोर्विवरणपूर्वकं मूर्त्यमूर्तिभेदेन तारकद्वैविध्यं चोपवर्ण्य तुरीयचैतन्यदर्शनस्य सद्गुरूपदेशलभ्यत्वमभिधाय गुरुशब्दार्थ प्रकाश्य एतदुपनिषत्पाठकस्य फलं चान्तेऽभिहितम् ॥ वक्तव्यविशेषः
मण्डलब्राह्मणोपनिषदि प्रतिपाद्यमानो यस्तारकविषयः स एवात्रोपनिषदि संगृह्य प्रतिपाद्यते । एते उभे अप्युपनिषदौ शुक्लयजुर्वेदगते मुद्रिते । तारकयोगविषय उभाभ्यामुपनिषद्भयां प्रतिपाद्यमानः सम्पूर्णतां प्राप्त इत्यूहितुं शक्यते । कोशेऽस्मिन् इयमुपनिषत्समग्रा दृश्यते ॥
No. 191 (3581/30).
अद्वैताख्योपनिषत् .
Adwaitākhyopaniṣat.
|
Substance - Palm-leaf. Size - 20 x 24 inches.
219
Shree Sudharmaswami Gyanbhandar-Umara, Surat
Character Andhra. Folios—34.
www.umaragyanbhandar.com