________________
आरण्यकी
GOVERNMENT ORIENTAL LIBRARY. MYSORE
व्यवस्थित प्रकरणादर्शनाडु डिमालिन्यहेतुत्वादियं शाखा कृष्णयजुर्वेद इत्यभिधीयत इति सायणायैरभापि । अरण्याध्येयतया चार्य भाग आरण्यकनाम्ना प्रथितः । तैत्तिरीयब्राह्मणसंवद्धं संज्ञानं विज्ञानं इत्यादिकं प्रश्नत्रितयं यथा कमुनिदृछ्रुत्वात्काकमिति व्यपदिश्यते तथाऽत्राप्यारण्यके ' भद्रं कर्णेभिः सह वै देवानां' इत्यादिकं प्रश्नद्वयमपि काठकमिति ज्ञायते । अत एव काण्डानुक्रमणिकायां प्रथमाध्यायान्ते - अथाष्टौ काठकानि सावित्रनाचिकेतचातुर्होत्र वैटसृजारुणाः पञ्चचितयो दिवश्येनयोऽपाघाचेष्टयः स्वाध्याय त्राह्मणमष्टमम्' इत्युक्तम् । तथा तत्रैव तृतीयेऽप्यध्याये -
'आरुणाम्नायविधी चैव काठके परिकीर्तितौ ' इति । स्वाध्यायब्राह्मणं काण्डं काठके पठितो विधिः ।
इत्यप्युक्तम् । अरुणविधिः 'भद्रं ' इति प्रश्नः, आम्नाय विधिश्व 'सह वै' इति प्रश्न इति तद्व्याख्यातारः । किंच महाव्याहृतिष्वन्तिमायां परिदृश्यमानमानुपूर्वीवैलक्षण्यं तैत्तिरीयकाठकभेदनिबन्धनमिति संप्रदायविद्भिरुच्यते । तस्माद्ब्राह्मणसंबद्ध काठक इवात्राप्यारण्यकीयप्रश्नद्वये तृतीयायां महाव्याहृतौ समानानुपूर्वीदर्शनादपीदं प्रश्नद्वयं काठकमित्येव जानीमहे | अभ्यूहामहे च काठकत्वेऽप्यादिमस्य प्रश्नद्वयस्य अरण्याध्येयतया आरण्यके समावेशम् ॥
किंच भट्टाभास्करमिश्रेण आरण्यकद्वितीयप्रश्नगततृतीयानुवाकादौ
189
“
वर्णान्यत्वं स्वरान्यत्वं पञ्चप्रश्नेषु दृश्यते' |
इत्युक्तथा द्वितीयप्रश्नादौ 'काठकशेषमारभ्यते इत्यवतरणोक्तथा सायणीयारण्यक भाष्योपाद्वातपरामर्शेन च प्रश्नपञ्चकस्य काठकत्वं भाष्यकृतोरुभयोरप्यभिमतमिति प्रतिभाति । ततश्च ब्राह्मणान्ते प्रश्नत्रयमारण्यकादौ प्रश्नद्वयं चेत्याहत्य प्रश्नपञ्चकं काठकसमाख्यमिति ॥
आरण्यकं वेदं आन्ध्रद्राविडपाठभेदेन द्विधा पठितं दृश्यते । तत्रान्ध्रपाठे - आदौ षट्प्रश्नाः तत उपनिषत् प्रश्नचतुष्टयात्मिकेत्याहत्य दश प्रश्ना दृश्यन्ते । द्राविडपाठे तु शिक्षानन्दभृगुवल्लीनामेकप्रश्नतया नारायणानुवाकस्य चान्यप्रश्नतयोपनिषदः प्रश्नद्वयात्मकत्वं, इतरे च पप्रश्ना इत्याहत्या प्रश्नाः परिदृश्यन्ते । तथाऽऽन्ध्रपाठे चतुर्धपञ्चमषष्ठतया परिदृश्यमानाः प्रवर्ग्यपितृमेधप्रश्ना द्राविडपाठे पञ्चमष्टप्रश्नरूप
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com