SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 188 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेद: चतुर्थप्रश्ने--प्रवर्योपयोगिनो मन्त्रा आम्नायन्ते ।। पञ्चमप्रश्ने--प्रवर्यव्राह्मणविधिः, सप्तमप्रपाठकानातमन्त्राणां विनियोग कथनं, प्रवाङ्गसामाद्यभिधानं प्रवर्ग्यफलादिकथनं च दृश्यते ॥ षष्ठप्रश्ने-पितृमेधविनियुक्ता मन्त्राः परिदृश्यन्ते ॥ सप्तमप्रश्ने—(साहित्याख्यायां तैत्तिरीयोपनिषदि शिक्षावल्लयां) अङ्गभू तोपासनोपदेशपूर्वकं परविद्या प्रस्तूयते ॥ अष्टमप्रश्ने-(आनन्दवल्लयां) परमतत्वहितपुरुषार्थप्रतिपादनं दृश्यते ॥ नवमप्रश्ने-(वारुण्याख्यायां भृगुवल्लयां) तपोनिरस्तकल्मषचेतसो ब्रह्म प्रतिपत्तिरित्यभिधीयते ॥ दशमप्रश्ने-(याज्ञिक्याख्यायां नारायणानुवाके नारायणाख्यस्य परस्य ब्रह्मणः स्वरूपाद्यभिधानपूर्वकं तयात्रुपयोगिस्नानादिकालजप्यमनून्विनिर्दिश्य दहरपरविद्यादिप्रतिपाद्यस्य तस्य परमपुरुषस्य प्राप्तावुपायभूतविद्यास्वभ्यर्हिता विद्याऽभिधीयते ॥ वक्तव्यविशेषःइदमिदानी किंचित्तैत्तिरीयारण्यकविषये प्रस्तूयते 'जाते देहे भवत्यस्य कटकादि विभूषणम् । आश्रितं मणिमुक्तादि कटकादौ यथा तथा ॥ यजुर्जाते यज्ञदेहे स्यादृग्भिस्तद्विभूषणम् । सामाख्या मणिमुक्ताद्या ऋच तासु समाश्रिताः' ॥ इति सायणार्यैः सामसंहिताभाष्ये प्राधान्येन दर्शपूर्णमासाद्याखिलकर्मप्रतिपादकत्वाद्यज्ञशरीरतयोपवर्णिते यजुर्वेदे कृष्णयजुश्शाखीयोsयमारण्यकभागः । पुरा किल 'चतुर्मुखपरम्परयाधिगतं वेदं चतुर्धा व्यासतुर्व्यासस्य शिष्येण वैशंपायननाम्ना मुनिप्रवरेण विप्रावमाननान्मदधीत वेदं परित्यजेत्युक्तेन याज्ञवल्क्यमहर्षिणा मूर्तिमन्ति वान्तानि यजूंष्यन्ये मुनयो गुर्वादिष्टास्तित्तिरिरूपधारिणः परिजगृहुः' इति पौराणिकाख्यायिकया तित्तिरिमुनिप्रोक्तत्वेन वाऽस्य कृष्णयजुर्वेदस्य तैत्तिरीयशाखात्वेनापि व्यपदेशो दृश्यते । अस्यां च तैत्तिरीयशाखायामाध्वर्यवादीनां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy