SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. प्रतिपाद्यविषय: ब्राह्मणेऽस्मिन् अध्यायापराभिधेयाः षट् प्रपाठका दृश्यन्ते । तत्र प्रथमे प्रपाठके प्रथमखण्डे सुब्रह्मण्याह्वानमभिधीयते। द्वितीये खण्डे-सुब्रह्मण्याशब्दस्याख्यायिकाप्रदर्शनपूर्वकं देवतामन्त्रोभयनामधेयत्वं प्रकाश्यते । तृतीयचतुर्थखण्डयोः-सवनत्रयविज्ञेयं प्रकाश्यते । पञ्चमषष्ठखण्डयोः-ब्रह्मकर्तव्यं व्याहृतिहोमादिनैमित्तिकप्रायश्चित्तमभिधीयते । सप्तमखण्डे--सौम्यचरुविधानं दृश्यते ॥ द्वितीयप्रपाठके आदितश्चतुर्ष खण्डेषु-बहिष्पवमानधर्मादयोऽभिधीयन्ते । पञ्चमषष्ठसप्तमखण्डेषु-सवनत्रयसंबन्धिनः चमसभक्षणोपयिका होत्राापहवाः कथ्यन्ते । अष्टमनवमदशमेषु खण्डेषु-ऋत्विग्विज्ञानवरणनैमित्तिकहोमाध्वर्युप्रशंसनादिकं दृश्यते ॥ __ तृतीयप्रपाठके प्रथमखण्डे–अवभृथधर्मा अभिधीयन्ते । द्वितीयतृतीयतुर्यपश्चमेषु-अभिचारसंज्ञकविठुतयोऽभिधीयन्ते ॥ चतुर्थप्रपाठके प्रथमखण्डे-व्यूढद्वादशाहधर्मा अभिधीयन्ते । द्वितीयतृतीयतुरीयपञ्चमखण्डेषु-श्येनत्रिवृदग्निष्टोमसंदंशवज्राख्या आभिचारिकयज्ञा निरूप्यन्ते ॥ षष्ठसप्तमखण्डयोः–वैश्वदेवसत्रमभिधीयते ॥ पञ्चमप्रपाठके प्रथमखण्डे-साख्यायिकाप्रदर्शनमग्निहोत्रं प्रश. स्यते । द्वितीयखण्डे-औदुम्वरीप्रशंसनं दृश्यत ॥ तृतीयखण्डे-यूपप्रशंसनं दृश्यते । तुरीयखण्डे–सन्ध्याकर्मप्रशंसनं दृश्यते । पञ्चमे खण्डे सोमस्य क्षयवृद्धिनिरूपणं दृश्यते । सप्तमखण्डे-स्वाहाकाराख्यदेवताऽभिधीयते ॥ षष्ठप्रपाठके प्रथमखण्डे–अद्भुतसामान्यशान्तिनिरूपणं दृश्यते ॥ द्वितीयखण्डे-आख्यायिकाप्रदर्शनपूर्वकं शत्रुविजयार्थहोमोऽभिधीयते। तृतीयखण्डमारभ्यासमाप्ति-इन्द्राग्निवरुणवैश्रवणवायुसोमविष्ण्वादिनिमित्तकाद्भुतविशेषेष्वनुष्ठयः शान्तिप्रकारः प्रकाश्यते ॥ वक्तव्यविशेषः-- सामवेदान्तर्गतकाथुमशाखीयेष्वष्टसु ब्राह्मणेष्विदं ब्राह्मणं षड्विंशाख्यं द्वितीयं स्यात् ' इति सायणायः द्वितीयतया परिगणितम् । अयं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy