SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 158 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदःद्वितीये - दर्शपूर्णमासावभिधीयेते ॥ तृतीये आधानपुनराधानाग्निहोत्रचातुर्मास्यान्यभिधीयन्ते || तुरीयपञ्चमयोः - एकाहाहीनसत्रलक्षणसोमयागप्रकृतिभूतोऽग्निटोमो निरूप्यते ॥ सप्तमयोः - वाजपेयराजसूयौ प्रतिपाद्येत ॥ अष्टमनवमयोः – अग्निचयनबाह्याङ्गभूतोखा संभरणादि भस्मावहरणान्तं कर्मजातमभिधीयते ॥ दशमैकादशयोः - चितिसंचित्योरुपधानक्रमो निरूप्यते ॥ द्वादशे - तत्तत्कर्मणां भावनापुरस्सर मनुष्ठाने फलविशेषादिकमभिधीयते ॥ . त्रयोदशे --आधानादिकर्मानुवादेन तत्तत्प्रशंसनपूर्वकं तत्तत्कालादिकमभिधीयते ॥ चतुर्दशे - तत्तद्यागदीक्षाप्रशंसनपूर्वकं सौत्रामणिर्निरूप्यते ॥ पञ्चदशे - अश्वमेधोऽभिधीयते ॥ षोडशे - प्रवर्ग्यनिरूपणं दृश्यते ॥ सप्तदशे - अन्तरङ्गबहिरङ्गभूतांशोपदेशपूर्वकं सविस्तरं ब्रह्मविद्यो पदिश्यते ॥ वक्तव्य विशेषः शुक्लयजुर्वेदीयमिदं काण्वशतपथब्राह्मणं एकपात्- हविर्यज्ञ - उद्धारि- अध्वर - ग्रह - वाजपेय - राजसूय- उखासंभरण- हस्तिघट-चिति - संचिति-अग्निरहस्य-अष्टाध्यायी-मध्यम- अश्वमेध - प्रवर्ग्य - बृहदारण्यकाभिधेयैः सप्तदशभिः काण्डैर्विभक्तं दृश्यते । माध्यंदिनीयशतपथब्राह्मणापेक्षयाऽस्मिन् ब्राह्मणे उद्धारिग्रहप्रवर्ग्याख्यास्त्रयः काण्डा अधिका दृश्यन्त इति मुद्रितैतद्ब्राह्मणभूमिकायामभ्यधायि । तत्र चास्माकमित्थं प्रतिभाति - माध्यंदिनपाठे अन्तिमे बृहदारण्यककाण्डे आदावेव प्रवर्ग्यभागदर्शनात् वाजपेयराजसूयकाण्डयोः सवकाण्डनानैकीकरणादत्रोद्धारिकाण्डभाग एक एवाधिक इति । अन्यूनशताध्यायीपरिमितत्वादेव चास्य शतपथब्राह्मणमिति नाम संभाव्यते । कोशेऽस्मिन् आदिममेकपात्काण्डं विना अवशिष्टानि पञ्चदश काण्डान्यपि दृश्यन्ते || Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy