SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Arequi] GOTERNMENT ORIENTAL LIBRARY, MYSORE 145 प्रतिपाद्यविषयः मन्त्रव्राह्मणेऽस्मिन् सामशाखीये प्रपाठकद्वयं दृश्यते । तत्र प्रथमे प्रपाठके अष्टौ खण्डाः सन्ति ॥ तत्र प्रथमे खण्डे–अग्निपर्युक्षणे ज्ञातिकर्मसु कन्याशिरःप्लावनादिषु अन्तरीयोत्तरीयधारण कन्यायाः पतिसमीपानयने कटपादप्रवर्तने आज्यहोमे चोपयुक्ता मन्त्रा आम्नायन्ते ॥ द्वितीये खण्डे--अश्माक्रामणलाजहोमसप्तपदाक्रमणकन्याशासनाभिषेचनपाणिग्रहणादिषूपयुक्ता मन्त्राः परिदृश्यन्ते ॥ तृतीये खण्डे-कन्यादोषोपशमनहोमे कन्यानुमन्त्रणे कन्याहृदयैक्यप्रार्थने रथारोहणचतुष्पथातिक्रमणचर्मोपवेशनधृतिहोमेषु च विनियुक्ता मन्त्रा दृश्यन्ते ॥ तुरीये खण्डे--चतुर्थीहोमगर्भाधानपुंसवनोपयोगिमन्त्रा उपलभ्यन्ते। पञ्चमे खण्डे--सीमन्तोन्नयनसोष्यन्तीहोमजातकरणनिष्कामणनामकरणोपयुक्ता मन्त्राः सन्ति ॥ 'षष्ठे खण्डे-चूडाकर्मोपनयनयोरिन्द्रियापचारप्रायश्चित्तहोमे चोपयोगिनो मन्त्रा अभिधीयन्ते ॥ सप्तमे खण्डे-समावर्तनोपयोगिनो मन्त्रा दृश्यन्ते ॥ अष्टमे खण्डे--गोचारणादिषूपयुक्ता मन्त्राः सन्ति ॥ एवं द्वितीये च प्रपाठके अष्टौ खण्डा दृश्यन्ते. तत्र प्रथमे खण्डे-श्रवणाख्यसर्पबलिकर्मणि नवाग्रयणे च विनियुक्ता मन्त्रा दृश्यन्ते ॥ द्वितीयतृतीयखण्डयोः-आग्रहायण्यां पायसान्नहोमे व्याहृतिजपभूमिजपेषु अष्टकाकर्मणि च विनियुक्ता मन्त्राः परिदृश्यन्ते ॥ तुरीये खण्डे–अग्निपरिसमूहने भोगकामादिकतिचित्काम्यकर्मसु चोपयोगिनो मन्त्रा आम्रायन्ते ॥ पञ्चमे खण्डे–अलक्ष्म्यपनोदनयशस्स्वस्त्ययनादिकाम्यकर्मसु विनियुक्ता मन्त्रास्सन्ति ॥ षष्ठ खण्डे–वास्तुयागे वसादिहोमे श्रवणाग्रहायण्योः कामनाभेदेनाक्षताञ्जलिहोमेषु प्रसादकामादीनां यवहोमादिषु च विनियुक्ता मन्त्रा दृश्यन्ते ॥ सप्तमे खण्डे-कृमिपातनमन्त्रा आम्नायन्ते ॥ D.C.M. 10 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy