________________
134
DESCRIPTIVE CATALOGUE OF SANSKRIT MSS.
[वेदः
उपक्रमः
अधिवसन्ति ते सास्साश्लेषा अस्माकं हवं यज्ञं आगमिष्ठाः अतिशयेनागन्तारः सन्तु । आगन्तृशब्दात् अ(त)न्नन्तात् 'तुश्छन्दसि' इतीष्ठन्प्रत्यये 'तुरिष्ठेमेयस्सु इति[टि]लोपः । ये रोचन इति । ये सर्पाः सूर्यस्यापि रोचने मण्डले नियुक्ता वसन्ति, ये च दिवं देवीं द्योतनवती अनुसंचरन्ति अनुव्याप्य संचरन्ति ॥ उपसंहारः____एतस्येति ॥ एतस्य प्रजापते रूपेणोपलक्षितं प्राजापत्यमृषभं सेक्तारं तूपरं शृङ्गरहितं बहुरूपं नानावणे पुरस्तात् अश्वमेधारम्भ एव सांग्रहणीसंज्ञान्योरनन्तरमेव वैशाख्यां पौर्णमास्यामालभते सर्वेभ्यः कामेभ्यः । स च सर्वस्याप्तथै भवति सर्वस्य च जित्यै । तस्मात् तेन तादृशेन पशुनोपलक्षितेन अश्वमेधेन सर्वमानोतीष्टम् । जयति च सर्व जेतव्यम् । योऽनेन यजते यश्चैनमेवमीदृक्प्रभावपशु क्रतुं वेद, स च सर्वमाप्नोति जयति च ॥
॥ इति नवमे द्वाविंशोऽनुवाकः ॥ प्रतिपाद्यविषयः
कोशेऽस्मिन् परिदृश्यमाने तैत्तिरीयब्राह्मणभाष्यभागे मूलस्थक्लिष्टशब्दानां प्रक्रियादिप्रदर्शनपूर्वकं नातिविस्तृतं नातिसंगृहीतं च विवरणं दृश्यते । एतत्प्रतिपाद्यविषयश्च एतन्मूलभूते No. 100 कोशे द्रष्टव्यः ॥
वक्तव्यविशेषः
कोशेऽस्मिन् तैत्तिरीयत्राह्मणभट्टभास्करभाष्यं तृतीयाष्टके प्रथमप्रश्न 51 तमवाक्यप्रभृति नवमप्रश्ने द्वाविंशानुवाकान्तं दृश्यते ॥
_No. 115 (2652).
तैत्तिरीयब्राह्मणभाष्यं ज्ञानयज्ञाख्यम् . Taittiriya-Brāhmaṇa-Bhāșyam, styled Jñānayajña. Author-Bhattabhaskara- | Substance-Palm-leaf. miśra.
| Size-11x11 inches.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com