SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 118 DESCRIPTIVE CA TALOGUE OF SA NSKRIT MSS. [वेदः तृतीये वाजपेयव्राह्मणप्रश्ने-पुनराधानवाजपेयपिण्डपितृयज्ञादिकं प्रतिपाद्यते ॥ चतुर्थ सोमादिब्राह्मणप्रश्ने–ग्रहा अभिधीयन्ते ॥ पञ्चमे नक्षत्रोष्टप्रश्ने-नक्षत्रष्टकामन्त्रादिकं दृश्यते ॥ षष्ठे राजसूयानुब्राह्मणप्रश्न-राजसूयोपयोगिप्रक्रिया अनुमत्यादीष्टयश्च प्रतिपाद्यन्ते ॥ सप्तमे राजसूयानुब्राह्मणप्रश्ने-शुनासीरीयहोमादयोऽभिधीयन्ते ॥ अष्टमे राजसूयब्राह्मणप्रश्ने-हविर्विशेषाभिधानपूर्वकमवेष्टिपशुवन्धादयो निरूप्यन्ते ॥ द्वितीयाष्टके अष्टौ प्रश्नास्सन्ति । तत्र प्रथमे अग्निहोत्रब्राह्मणप्रश्ने-सोपोद्घातमग्निहोत्रमभिधीयते । द्वितीये होतृव्राह्मणप्रश्ने- दशहोत्रादिमन्त्राणां क्रत्वर्थपुरुषार्थप्रयोगादिकं निरूप्यते ॥ तृतीये होतृब्राह्मणशेषप्रश्ने-सर्वेषां होतृमन्त्राणां चतुर्होतृत्वव्यवहारादिकं कथ्यते ॥ चतुर्थे उपहोमप्रश्ने उपहोमे विनियोज्या ऋच आम्नायन्ते ॥ पञ्चमे उपहोमशेषप्रश्ने-उपहोमशेषभूता मन्त्रा आम्नायन्ते ॥ षष्ठे सौत्रामणिप्रश्ने-सौत्रामण्यादियागोपयोगिग्रहादयोऽभिधीयन्ते ॥ सप्तमे सवप्रश्ने-बृहस्पत्यादिसवा अभिधीयन्ते ॥ अष्टमे काम्यपशुयाज्यानुवाक्याब्राह्मणे-काम्यानां पशूनां याज्यानुवाक्यामन्त्राः संगृह्यन्ते ॥ तृतीयाष्टके द्वादश प्रश्ना दृश्यन्ते । अत्र सप्तममच्छिद्रप्रश्नतया अष्टमनवमौ अश्वमेधप्रश्नतया दशमप्रभृति त्रीन् प्रश्नांश्च काठकप्रश्नतया व्यवहरन्ति ॥ तत्र प्रथमे नक्षत्रेष्टिब्राह्मणप्रश्ने-नक्षत्रेष्टीनां याज्यानुवाक्याः तत्तनक्षत्रष्टयश्चाभिधीयन्ते ॥ द्वितीये दर्शपूर्णमासेष्टिब्राह्मणप्रश्ने-वत्सापाकरणदर्वीहोमादिकं कथ्यते ॥ तृतीये दर्शपूर्णमासेष्टिब्राह्मणप्रश्ने-सुक्समार्जनं मार्जनार्थदर्भाणामग्नौ प्रेक्षपादिकं च कथ्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy