________________
ब्राह्मणं]
GOVERNMENT ORIENTAL LIBRARY, MYSORE
तत्कटाक्षेण तद्रूपं दधदुक्कमहीपतिः । आदिशत्सायणाचार्य वेदार्थस्य प्रकाशने ॥ ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसङ्ग्रहात् । कृपालुर्माधवाचार्यो वेदार्थ वक्तुमुद्यतः ॥ व्याख्यातावृग्यजुर्वेदौ सामवेदेऽपि संहिता | व्याख्याता ब्राह्मणव्याख्यां करोम्यौगात्रवृ (बु) द्धये ॥ पञ्चविंशतिरध्याया महति ब्राह्मणे स्थिताः । आद्येऽध्याये श्रुता मन्त्रा उद्गातुर्य जुरात्मकाः ॥ ये 'तु मन्त्राः स्तोत्ररूपा उत्तरासु तृचेषु ते । योनिद्वानमूहित्वा पठ्यन्ते तद्विधेर्वशात् ॥ यद्यन्यां गानमाम्नातं तदेवोत्तरयो ऋचोः । गायेदिति स्तोत्रक्लृप्तयै साम्राम्हो विधीयते ॥ आवृत्तियुक्तं तत्साम स्तोम इत्यभिधीयते । द्वयोरध्याययोः स्तोमप्रकारा बहुधा श्रुताः ॥ चतुर्थाध्यायमारभ्य गवामयनिका दयः । क्रतूनां विधयः प्रोक्ता एषोऽस्मिन् ब्राह्मणे क्रमः ॥ प्रथमाध्यायगा मन्त्रा विनियोगपुरस्सरम् । व्याख्यायन्ते सर्व सोमयागेष्वेतेऽङ्गतां गताः ॥ ननु प्रथमाध्याये समाम्नातानां महन्मे वोच इत्यादीनां मन्त्राणां क्रत्वङ्गत्वमयुक्तम् ; ऋतुप्रकरणमध्ये पाठाभावात् ॥
उपसंहारः---
115
संवत्सरशब्दः स्वावयवभूतेऽहनि अवयवलक्षणया वर्तते । त्रिवृतः संवत्सरा इत्युक्ते त्रिवृत्स्तोमकयागयुक्तान्यहानीत्युक्तं भवति । तस्माद्विश्वसृजामृषीणामिदं सहस्रदिनमिति सिद्धान्तः ॥
मध्येपृष्ठं पूर्वमुक्तं पञ्चविंशे ततः परम् । उक्तमङ्गिरसां सत्रं दृतिवातवतोस् स्मृ (स्त) तः ॥ तृतीयमयनं प्रोक्तं चतुर्थ कुण्डपायिनाम् । तापश्चितं ततः प्रोक्तं ततो द्वादशवत्सरम् ॥
त्रिंशद्वत्सरं प्रोक्तं शाक्यानामिह सप्तमम् । अष्टमं त्विह साध्यानां शतसंवत्सरं ततः ॥
D.C.M.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
8*
www.umaragyanbhandar.com