________________
100
DESCRIPTIVE CATALOGUE OF SANSKRIT MSS.
(as:
विभाग इति जिज्ञासायां तद्विभागकथनं प्रतिजानीते– अथात इति । अथ होतृहौत्रकशस्त्रनिर्णयानन्तरं सतां (यतः) शस्त्राद्यनुष्ठायिनां जीवनोपायोऽपेक्षितः अतः कारणात्सवनीयस्य पशोर्विभक्तिः कथ्यते ॥ उपसंहारः__ यथाऽऽदित्यो झुलोके प्रतिष्ठितस्तपति एवमेते श्रियां गजाश्वादिकायां सम्पदि प्रतिष्ठितास्सन्तस्तपन्ति शत्रूणां तापं कुर्वन्ति । तथा सर्वाभ्यो दिग्भ्यः सर्वदिगवस्थितेभ्यो राजभ्यः सकाशाद्वलिमावहन्तः करमाददानाः स्वामिनो भवन्ति । नराशंसभक्षं पुनरपि फलकथनेन प्रशंसति--" आदित्य इव ह वै श्रियां प्रतिष्ठितस्तपति सर्वाभ्यो दिग्भ्यो बलिमावहत्युग्रं हास्य राष्ट्रमन्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्रियो यजमानो यजमानः" इति । पूर्ववद्वयाख्येयम् । अभ्यासोऽध्यायसमाप्तयर्थः ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे ऐतरेयब्राह्मणे पञ्चत्रिंशेऽध्याये अष्टमः खण्डः ॥
॥ सप्तमपश्चिका समाप्ता ॥ प्रतिपाद्यविषयः
एतद्भाष्यमूलभूते No. 76 कोशे निर्दिष्टा ऐतरेयब्राह्मणीयसप्तमपश्चिकागता विषया एवैतत्कोशदृश्यमाने भाष्ये मूलार्थस्फुटीकरणपूर्वकं प्रकाश्यन्ते ॥ वक्तव्यविशेषः
कोशेऽस्मिन् समूलानुवादं सायणीयैतरेयब्राह्मणभाष्यं सप्तमपश्चिकामात्रस्योपलभ्यते ॥
No. 87 (1916). ऐतरेयब्राह्मणभाष्यं वेदार्थप्रकाशाख्यम् . Aitareya-Brāhmaṇa-Bhāsyam, styled Vedārthaprakāśa. Author—Sāyaṇācārya. Size—17x14 inches. Substance-Palm-leaf. I Character-Nagari.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com