SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेद: इत्येष मन्त्रः ॥ तस्यायमर्थः - त्वशब्दः सर्वनामसु पठित एकशब्दपर्यायश्च । एको होतृनामकऋत्विक् तत्रतत्र विप्रकीर्णानामृचां यज्ञानुष्ठानकाले सङ्घीभावमापाद्य पुष्टिं कुर्वन्नास्ते ॥ 72 उपसंहारः स त्वमसुरैरपहृतं गव्यं गोसम्बन्धि अश्वयं अश्वेषु भवं व्रजं समूहं अभितत्निषे अभितो व्याप्तोषि । 'तनु विस्तारे' छान्दसे लिटि 'तनिपत्योश्छन्दसि' इत्युपधालोपः । किञ्च हे धृष्णो शत्रुघर्षणशील सोम त्वं वर्मी कवचीव शूरः आरुज असुरानाजहि । ' अपि या अन्तर श्मनि ' ' अप्या अन्तरश्मनः' इति पाठौ ॥ ॥ इति पञ्चमस्याध्यायस्य एकादशः खण्डः ॥ वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यार्तार्थमहेश्वरः ॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिक मार्गप्रवर्तकश्रीवीर बुक्कभूपालसाम्राज्य धुरन्धरेण सायणाचार्येण विरचिंत माधवीये वेदार्थप्रकाशे छन्दोव्याख्याने पञ्चमोऽध्यायः. ॥ समाप्ता च संहिता ॥ प्रतिपाद्यविषय: श्रीसाय णार्यप्रणीतेऽस्मिन् सामसंहिताभाष्ये अग्नीन्द्रादिस्तुतिपराणामृचां तत्तत्क्लिष्टशब्दव्युत्पादनपूर्वकं ललितयैव शैल्या विवरणं दृश्यते ॥ वक्तव्यविशेषः • कोशेऽस्मिन् छन्दआर्चिकापराभिधेयस्य पवमानपर्वान्तस्य सामसंहितापूर्वाचिकस्य सायणीयं भाष्यं दृश्यते ॥ No. 66 (A234). * सामसंहिताभाष्यम्. * Sāma-samhita-bhāsyam. I Shree Sudharmaswami Gyanbhandar-Umara, Surat Author — Bharataswamin. Substance-Paper. Size - 143 × 8 inches. Character—Telugu. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy