________________
संहिता ]
GOVERNMENT ORIENTAL LIBRARY. MYSORE
-
उपक्रमः
हारः ओम् ॥ वागीशाद्यास्सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ तत्कटाक्षेण तद्रूपं दधदुकमहीपतिः । आदिशत्सायणाचार्य वेदार्थस्य प्रकाशने || ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसङ्ग्रहात् । कृपालुस्सायणाचार्यो वेदार्थ वक्तुमुद्यतः ॥ सामवेदार्थमेषोऽत्र प्रकाशयति सादरम् | उद्गातुस्तत्र जिज्ञासोरपि तेन कृतार्थता ॥ यज्ञो ब्रह्म च वेदेषु द्वावर्थी काण्डयोर्द्वयोः । अध्वर्युमुख्यैर् ऋत्विग्भिश्चतुर्भिर्यज्ञसम्भवैः ॥ निर्मिमीते क्रियासङ्गैरध्वर्युर्यज्ञियं वपुः । तदलङ्कुर्वते होता ब्रह्मोद्गातेत्यमी त्रयः ॥ शस्त्रयाज्यानुवाक्याभिर्होताऽलङ्करुतेऽध्वरम् । आज्यपृष्ठादिभिः स्तोत्रैरुद्वाताऽनुकरोत्यमुम् ॥ त्रयाणामपराधं तु ब्रह्मा परिहरेत्सदा । ऋत्व इति मन्त्रेण सोऽर्थस्सर्वोऽभिधीयते ॥ यज्ञं यजुर्भिरध्वर्युर्निर्मिमीते ततो यजुः । व्याख्यातं प्रथमं पश्चादृचो व्याख्यानमीरितम् ॥ ऋगाश्रितत्वेन साम्नां व्याख्यानमथ वर्ण्यते । अनुतिष्ठा सुजिज्ञासावशाद्याख्याक्रमो ह्ययम् । जाते देहे भवत्यस्य कः कान्ति (कटका) दिविभूषणम् ॥ आश्रितं मणिमुक्तादि कटकादौ यथा तथा । यजुर्जाते यज्ञदेहे द्विभूषणम् ॥ सामाख्या मणिमुक्ताद्या ऋक्षु तासु समाश्रिताः ॥ ननु - अध्वर्यु होबुद्गातृब्रह्मकर्तव्यप्रतिपादको यो मन्त्रस्तस्यार्थो योजनीय इति चेत्स योज्यते ॥
I
....
(f
ऋचां त्वः पोषमास्ते पुपुप्वान् गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां निमिमीत उ त्वः
""
71
Shree Sudharmaswami Gyanbhandar-Umara, Surat
||
www.umaragyanbhandar.com