________________
AMMAR
: ५५४ :
[ताना तेप्यूचुः किश्चिदप्यग्रे यामिनीव ययौ विभुः । यावत् कथयितुं यामस्तावद्देवोऽप्युपाययौ ॥३६९ ॥ हस्तविन्यस्तिचिबुको बाष्पायितविलोचनः । अथेदं चिन्तयामास ताम्यंस्तक्षशिलापतिः ॥३७० ॥ स्वामिनं पूजयिष्यामि समं परिजनैरिति । मनोरथो मुधा मेऽमद् हृदि वीजमिवोपरे ॥३७१ ॥ चिरं कृतविलंबस्य लोकानुग्रहकाम्यया । धिगियं मम सा जज्ञे, स्वार्थभ्रंशे न मूर्खता ॥ ३७२॥ विगियं वैरिणी रात्रिधिगियं च मतिर्मम । अन्तरायकरीस्वामिपादपमावलोकने ॥३७३ ।। विभातमप्यविधात भानुमानप्यभानुमान् । दशावयर्दषावेव पश्यामि स्वामिनं नयत् ॥३७४ ॥ अत्र प्रतिमया तस्थौ रात्रि त्रिभुवनेश्वरः । अयं पुनर्बाहुबलि सौधे शेते स्म नित्रपः ॥ ३७५ ॥ अथ बाहुबलिं दृष्ट्वा चिन्तासन्तानसंकुलम् । उवाच सचिवो वाचा, शोकशल्यविशल्यया ॥ ३७६ ॥ अत्र स्वामिनमायातं नापश्यमिति शोचसि । किं देवनित्यवास्तव्यः, स एव इदि यस्य ते १ ॥३७७॥ कुलिशाकुशचक्राजध्वजध्वजमत्स्यादिलाञ्छितः। दृष्टैः स्वामिनस्तानि पदविम्मानि भक्तितः ॥३७४ ॥ साम्तपुरपरिवारः सुनन्दासुरवन्दतः ॥ ३७९ ॥ पदान्येतानि मा स्माऽतिकामत कोऽपीति बुद्धितः । धर्मचक्र रत्नमयं तत्र बाहुबलियंधात ॥३८० ॥ अयोजनविस्तारं, तच्च योजनमुच्छ्रितम् । सहसारं पभो किवं सहस्रांशोरिकाभरण ॥३८१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com