________________
प्रशस्ति-संग्रह
वाग्देवतां ज्ञातृकथोपासकाध्ययनस्तनीम् । अन्तकृद्दशसन्नाभिमनुत्तरदशांगताम् ॥ सुनितम्बां सुजघनां प्रश्नव्याकरणाश्रिताम् । विपाकसूत्रकृवयचरणां चरणाम्बराम् ॥ सम्यक्त्वतिलका पूर्वचतुर्दशविभूषणाम् । तावत्प्रकीर्णकोद्गीर्णचारुपत्राङ्करश्रियम् ॥
मध्य भाग (पूर्व पृष्ठ ३, पंक्ति ७)
स्थाद्वादकल्पतरुमूलविराजमानां रत्नत्रयाम्बुजसरोवरराजहंसीम् ।
अङ्गप्रकीर्णकचतुर्दशपूर्वकायामाम्नायवाङ्मयवधूमहमाह्वयामि ॥ शारदाभिमुखीकरणम्
अविरलशब्दमहौघा प्रक्षालितसकलभूतलकलङ्का । मुनिभिरुपासिततीर्था सरस्वती हरतु नो दुरितम् ॥ ॐ ह्रीं श्रीं मन्त्ररूपे विबुधजननुते देवि देवेन्द्रवन्ये चञ्चञ्चन्द्रावदाते क्षपितकलिमले हारनीहारगौरे । भीमे भीमाट्टहासे भवभयहरणे भैरवि भीरु धीरे ह्रां ह्रीं ह्र कारनादे मम मनसि सदा शारदे तिष्ठ देवि ॥
अन्तिम भाग
परमहंसहिमाचलनिर्गता सकलपातकपंकविवर्जिता । अमितबोधपयःपरिपूरिता दिशतु मेऽभिमतानि सरस्वती ॥ परममुक्तिनिवाससमुज्वलं कमलयाकृतवासमनुत्तमम् । वहति या वदनाम्बुरुहं सदा दिशतु मेऽभिमतानि सरस्वती ॥ सकलवाङ्मयमूर्तिधरा परा सकलसत्त्वहितैकपरायणा | ........ नारदतुम्बुरुसेविता दिशतु मेऽभिमतानि सरस्वती ॥ मलयचन्दनचन्द्ररजःकणा प्रकरशुभ्रदुकूलपदावृता | विशदहंसकहारविभूषिता दिशतु मेऽभिमतानि सरस्वती॥ मलयकीतिकृतामितिसंस्तुति (पठति यो) सततं मतिमानरः । विजयकीर्तिगुरुकृतमादात् स मतिकल्पलताफलमश्नुते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com