SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ जैन ज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीय विमर्शे राशिद्वारम् । ४५ यो ग्रहः स्वेष्ववस्थितः । स स्ववर्गगतो ज्ञेय एवमेवान्यवर्गगः ॥ २४ ॥ अग्नि ईशान पूर्व रवि शुक्र गुरु ग्रहाः स्युरैन्द्याद्यधिपा दिने - शुक्रोरैराह्नॉर्किश शिज्ञजीवः । पापाः कृशेन्द्वर्कतमोऽसितारास्तैः संयुतो ज्ञश्च, परे सौम्याः तु ॥ २५ ॥ उत्तर बुध दिगीश- दक्षिण ग्रहयन्त्रम् मंगळ शनि राहु नैर्ऋत्य चंद्र वायव्य पश्चिम तथा अहो नवांशस्य प्राधान्यम् तथाहि - लग्ने शुभेऽपि यवंशः क्रूरः स्यान्नेष्टसिद्धिदः । लग्ने क्रूरेऽपि सौम्यांशः शुभदोऽंशो बली यतः ॥ इति दैवज्ञवल्ल मे । तथा क्रूरांशस्थः सौम्य प्रहोऽपि क्रूरः स्यात् सौम्यांशस्थस्तु क्रूरोऽपि सौम्यः स्यादिति लल्लः । तथा क्रूरांशस्थस्य सौम्यग्रहस्यापि दृष्टिर्दुष्टा सौम्यांशस्थस्य च क्रूरस्यापि दृक् शुभा । तथा ग्रहगोचरशुद्धिविचारणावसरे ग्रहो राशिगोचरेणाशुभोऽपि नवांशगोचरेण यदि शुभः स्यात्तर्हि शुभ एवेत्यादि लल्लीपती । 3 षण्णामिति निर्धारणे षष्ठी । व्यादिष्विति अन्यतरेषु त्रिषु चतुर्षुकर्षतः पञ्चसु वा स्वकीयेषु यः स्थितः, न तु कदापि षट्सु संभवति, अर्कैन्द्वोस्त्रिंशांशस्य कुजादीनां होरायाश्चाभावात् स स्ववर्गस्थस्तत एव च सबलः । एवमेवेति यस्तु त्र्यादिषु परकीयेषु स्थितः सोऽन्यवर्गस्थस्तत एव विबलश्च । विशेष यत्र नवांशे षष्णां पञ्चानां चतुर्णां वा गृहाद्यन्यतरेषां सौम्य एव ग्रहस्वामी लभ्यते स नवांशः षड्वर्गस्य पञ्चवर्गस्य चतुर्वर्गस्य वा सौम्यत्वात् प्रतिष्ठादिलग्नेषु विशेषतो ग्राह्यः । स चैवं निर्धारितः तथाहि—“सत्तमनवमा मेसे पंचमतइआ विसे मिहुणि छैठो । पढमतइआ य कँक्के सिंहे छैठो कणी तईओ ॥ १ ॥ अट्ठमनवमा य तुले विच्छियलग्गे चउत्थय नर्वसो । धणुलग्गि छठ्ठसत्तमनवम मयरम्भ पंचमओ ॥ २ ॥ छठ्ठठ्ठमा य कुनै ढो तइओ अ मी लग्ग । चउपणवग्गछत्रग्गो एएसु नवंसएसु सुहो" ॥३॥ अत्र चउपणवग्गत्ति एषु नवांशेषु चतुर्वर्गशुद्धिस्तावदस्त्येव, पञ्चवर्गशुद्धिषड्वर्गशुद्धी तु केषु चिन्नवांशेषु संपूर्णेषु स्तः केषाञ्चित्तु कियत्यपि भागे स्तः, तद्यक्तिश्च ग्रन्थप्रान्त काव्यवृत्तौ लिखिताऽस्ति ततोऽभ्यूह्या । इह च केचित्रिवर्गशुद्ध्याऽप्यन्ये तु नवांशस्यैव प्रभुत्वात्तमेवैकं सौम्यसत्कमादाय शेषवर्गशुद्धिं विनाऽपि लग्नमाद्रियन्ते, तदत्रेदं तत्त्वम् - लग्ने ध्रुवग्राह्यनवांशशुद्धौ सत्यां यथा यथा शुभबहुवर्गलाभस्तथा तथा प्रतिष्ठादौ शुभकार्ये तद्विशिष्य ग्राह्यम् ॥ 1 दिग्वाच्या केन्द्रमतैरसंभवे वा वदेद्विलग्नर्क्षात् । चौरादीनामिति शेषः । 2 कृष्णचतुर्दश्यादिदिनत्रयेऽकलः कृशः शशी क्रूरः । 3 प्रयोजनं पापसौम्यग्रह बलिष्ठत्वाज्जातकादेस्ताच्छील्यादि विशेषस्तु रक्तश्यामो भास्करो, गौर इन्दुर्नात्युच्चाङ्गो रक्तगौरव वैकः । दूर्वाश्यामो ज्ञो गुरुर्गौरगात्रोऽश्यामः शुक्रो, भास्करिः कृष्णदेहः ॥ १ ॥ अस्यापि प्रयोजनं बलिनः सदृशी जातकादेर्मूर्त्तिः । यद्वा लग्ने तत्कालं यो नवांश स्वत्स्वामितुल्या तन्मूर्तिरिति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy