SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्श राशिद्वारम् । ४१ सिंहोक्षमेषप्रमर्दा धनुर्धटघटीः क्रमात् ॥ १२ ॥ लग्नाद्भावास्तनु.१ द्रष्टव्यं । यतो भौमाद्याः प्रायो वक्रिता अतिचरिता वा स्युः । न च तदानीमयं परमो. च्चनीचत्वसमयः संवदति, तेन वक्रातिचारवतां ग्रहाणां वक्ष्यमाणकरणेन स्पष्टतां कृता यथोक्तांशेरेव परमोच्चनीचत्वे निर्धायें । सहजगतीनां तु सांप्रतोक्तसमययुक्त्येति । उच्च. नीचप्रयोजनं त्वेवम्-"इक्को जइ उच्चस्थो हवइ गहो उन्नइं परं कुणइ । किं पुण बे तिनि गहा कुणंति को इत्य संदेहो ॥१॥ जन्मनि तत्फलं यथा-"व्युच्चेर्नृपः पञ्चभिरर्धचक्री चक्री षडुच्चैर्मुनिभिस्तथान् ॥ १॥ त्रिभिनींचैर्भवेद्दासस्त्रिभिरुच्चनराधिपः । त्रिभिः खस्थानगैमंत्री त्रिभिरस्तमितैर्जडः ॥ १ ॥ अन्धं दिगम्बरं मूर्ख परपिंडोपजीविनम् । कुर्यातामतिनीचस्थौ पुरुषं चन्द्रभास्करौ" ॥२॥ इत्यादि । त्रिकोणान्यथेति एतानि मूलत्रिकोणान्यप्युच्यन्ते । प्रमदा कन्या । धटस्तुला । घटः कुंभः । प्रयोजनं तु त्रिको णग्रहा उच्चसमं किञ्चिदूनं वा फलं दद्युरिति पाकश्रियाम् । प्रश्नशतकवृत्तौ च त्रिकोणादीनि त्रिंशांशव्यक्त्या एवमूचिरे, तथाहि-"सिंहे विंशतिस्त्रिशांशास्त्रिकोणं शेषा दश गृहं रवेः १। वृषे द्वावंशावुचौ तृतीयः परमोच्चः शेषात्रिकोणमिन्दोः २ । मेषे द्वादशांशास्त्रिकोणं शेषा गृहं कुजस्य ३ । कन्यायां चतुर्दशांशा उच्चाः पञ्चदशः परमोच्चः ततः पञ्चांशास्त्रिकोणं शेषा दश गृहं बुधस्य ४ । धनुषि दशांशास्त्रिकोणं शेषा गृहं गुरोः ५। तुलायां पञ्च दशांशास्त्रिकोणं शेषा गृहं शुक्रस्य ६ । कुंभे विंशतिरंशास्त्रिकोणं शेषा दश गृहं शनेरिति ॥ _1 भाव्यन्ते विचार्यन्ते इति भावाः । पृच्छायां जन्मनि यात्रादौ वा यः कश्चित्तत्काले उदयन् राशिः स लग्नाख्यो द्वादशारचक्राकृतिं न्यस्य संमुखारविवररूपे मुख्यस्थाने देयः, शेषा एकादश राशयोऽप्रदक्षिणमेकादशस्थानेषु च, एवं कुंडलिका स्यात् । तत्स्थापना पृष्ठे ४२ । अत्र लग्नस्य तनुभावसंज्ञा इष्टनरादेस्त नुरेतदनुसारेण विचार्येत्यर्थः । ततोऽप्रदक्षिणमेकादशस्थानेषु द्वितीयादिस्थानस्थराशीनां क्रमाद् द्रव्यभाव २ भ्रातृभाव ३ बन्धुभावा४दिसंज्ञाः । इष्टस्य पुंसो द्रव्यभ्रात्रादिकमेषामनुसारेण विचार्य, तथाहि-“यो यो भावः स्वामिदृष्टो युतो वा, सौम्यैर्वा स्यात्तस्य तस्यास्ति वृद्धिः । पापैरेवं तस्य तस्यास्ति हानिर्निर्देष्टव्या पृच्छतां जन्मतो वा" ॥ १ ॥ नवरं षष्टेऽरिभावे यथा क्रूरा अरिभावं मन्ति तथा सौम्या अपि घ्नन्त्येव, न तु पुष्णन्ति । व्ययाष्टमयोश्च यथा सौम्या व्यय. मृत्यू पुष्णन्ति तथा क्रूरा अपि पुष्णन्त्येव, न तु नन्ति । अत एवोक्तं-"सौम्याः षष्ठे. ऽरिनाः सर्वे नेष्टा व्ययाष्टमगा" इति । यवनेश्वरमते तु-"अष्टमे सौम्या आयुर्वृद्धिकरा इति । भ्रातृभावे च भगिन्योऽपि लक्ष्याः । बन्धवः खजना बन्धुभावे माताऽपि । सुत. भावे शिष्या अपि । स्त्रीति भार्या । अत्र गमागमाद्यपि । अष्टमे रोगाद्यपि । धर्मभावे क्रमागतविद्याऽचुम्बिताविद्याऽचिन्तितधनलाभाद्यपि । दशमे कर्मव्यापारः, अत्र पिता. भाग्यमाश्वर्याद्यपि च । लामे नष्टलाभाद्यपि । व्यये सदसद्ययादि च विचार्याणि(य)। द्वादशेति यथा लमादारभ्य द्वादश भावा उक्तास्तथा चन्द्रादपि ज्ञेयाः, लमचन्द्रयोर्मध्ये यस्तदानीं बलवान् स्यात्तस्माद्दादश भावा विचार्यन्त इत्याम्रायः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy