________________
(३७) एवं नानाविधै वाक्यः, सुरे संबोधिोऽपि सः । न व्यधात्पारणं राजा, मूर्तिजिघृक्षुमानसः ॥५९ ॥ गते प्राणेऽपि यास्यामि, नाहमिति दृढाशयः। भक्तपानं विना तत्र, व्यतियौ सप्तवासरं ॥६०॥ ततस्तपोबलादेत्य, रात्रौ धरणराट् स्वयं । प्रबोध्य तमित्युवाच, राजन् ! किं त्वं हठायसे ॥६१ ।। महाचमत्कारिण्यास्या-मूर्त्याः पूजा न सेत्स्यति । युष्मद्भिश्च ततो राजन् ! सिद्धकार्यों गृहं ब्रज ॥२॥ राजोवाच फणिराज ! स्वकुक्षिभरणेन किं। ततो जगदुपकृते, देहि मूर्ति मम प्रभोः ॥१३॥ विनाऽऽकृतिं न यास्यामि, गते प्राणेऽपि नागराट् ! । ददातु न ददातु वा मम प्राणस्तु तत्पभोः (१) ॥६४ ॥ इत्याकर्ण्य नागराजः साधर्मिकष्टभीतिना। माह तमेलचाधीशं धरणेन्द्रो धरणीधवं ॥६५॥ राजन् ! त्वद्भक्तिसंतुष्टो दास्येऽहं प्राणतः प्रियां। जगदुपकृते नून, मूर्तिमिमां चमत्कृत(ताम् ॥६६॥ परमस्य प्रभोः राजन् !, मा कांर्षीस्त्वमाशातनाः। अन्यथा चेन्महाकष्ट, मचेतसि भविष्यति ॥६७॥ ओमिति स्वीकृते राज्ञि, प्राह नागो नृप ! श्रुणु । प्रगे स्नात्वा स्वच्छ भूय, त्वमेहि कूपनैकटम् ॥६८॥ १ स्वप्ने. प्र. २ प्रभौ. प्र. ३ मन्मनसि प्र.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com