________________
(३२) ष्टां सम्पदं मेदुरां पुष्टां। पुनः किंभूतां सम्पदं अबाधां-बाधारहितां । किंविशिष्टा जिनाधीश्वराः-अगाधा-गम्भीराः । पुनः किंभूता जिनाधीश्वराः-भास्वराः कान्त्यादीप्यमानाः । पुनःकिभूताजिनाधीश्वरा-दन्तिदन्तवत्-हस्तिदन्तवत् शुभ्रत्वेन अन्तः स्वरूपं यस्य स ईदृग् यो राकापतिः पूर्णिमाचन्द्रस्तस्य प्रान्तेषु विश्रान्ताः स्थिता याः कान्तिच्छुटा:-कान्तिपङ्कयः। मध्यस्थितानां चन्द्ररुचीनां कलङ्ककलुषितत्वेनाविवक्षणात् । तासां कूटं वृन्दं । अतिबहुत्वन्यापनार्थमित्थमुपन्यासः । तद्वत् , अथवा तासां कूटेन दम्भेन पेटत् पुजीभवन् यशःसञ्चयः-कीर्तिनिचयो येषां ते दन्तिदन्तान्त। पिट् शब्दसंघातयोरितिधातोः शतप्रत्यये पेटत् इति भवति । किंकुर्वन्तो जिनेश्वराः-समवसरणमेव मण्डप आश्रयविशेषस्तं समवसरणमण्डपं भूषयन्तः अलङ्कर्वन्तः । किविशिष्टं समवसरणमण्डपं असुरविकरेणासुरवृन्देन क्लुप्तो निर्मितो यः किंकिल्लिरशोकतरुस्तस्य सम्कुल्ला विकस्वरा या फुल्लावली पाठान्तरे वा पुष्पावली कुसुमश्रेणिस्तस्याः प्रान्तेषु वेल्लन् क्षरन् यो मधुस्यन्दो मकरन्दरसस्तस्य निस्पन्दा निश्चलाये बिन्दवस्त एव प्रपा पानीयशाला तत्र यत्पानं मकरन्दविन्दुवृन्दाऽऽरसास्वादनं तेन संजायमानं असमानयोरसदृशयो निध्वानयो लघुमहानादविशेषयोः सन्धान निरन्तरतया विधानं यासांता एवंविधा या रोलम्बमत्ताङ्गना मत्तमधुकर्यस्तामिविरचिताः कृता नवरङ्गभङ्गीमिनूतनरङ्गविच्छितिमिस्तरंगी भवङ्गरागाङ्गा प्रादुर्मवद्रम्यरागाभ्युपाया संगीतिरीतिः संगीतपद्धतिस्तस्याः स्थितिरवस्थानं तस्याः स्फीति वृद्धिस्तया संप्रीणितानि मानन्दितानि प्राणिन एव सारंगामृगाः प्राणिसारंगास्तेषां चित्तानि येन स तं अमरनिकर० । पुनःकिविशिएं समबरणमंडपं-महानम्बस्य-परमपदस्य मिशमिव साहमिव महानन्द मिसमवसरणस्थितजनानां निर्वाणShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com