________________
आषाढ़|| पडि-वस्त्रं, कं-जलं, मणं-मनः, इति व्यस्तं । समस्ते तु दिवसकृतं पापं हरतीति प्राकृतभाषाया 'पडिकमणं' | व्याख्या
नम्। चातुर्मा०॥ इति, महणसिंहादिवत्कार्यम् २। पौषधश्च चतुःपव्यों चतुर्विधः कार्यः ३ । अर्चनं वासादिना ४ । मात्रं जलादिना|| ॥८॥
१ प्रतिक्रमणनियमे महणसिंहकथानकं त्वेवम्-दिल्लयां पुरि पीरोजसुरत्राण आसीत् , स एकदा अन्यपुरं प्रति चचाल । तदा तेन महणसिंहसाधुः सार्थे आकारितः । मार्गे सूर्यास्तमनसमये स तुरङ्गमादुत्तीर्य प्रतिक्रमणं कर्तु भूमि प्रमृज्य स्थितः । उपकरणानि सदैव 8|| सार्द्ध रक्षति । नृपरत्वप्रेतने प्रामे गतः । तं श्रेष्ठिनं पार्श्वस्थमदृष्ट्वा आकारयितुं जनं प्रेषीत् । ततः पूर्णसामायिकं पारयित्वा राज्ञः पार्श्व &ा समेतः । राज्ञा पाश्चात्यस्थितिस्वरूपं पृष्टम् । महणसिंहेनोक्तम् -'रवावस्ता( स्तोदया)चलमालम्बिते सति प्रामेऽरण्ये च नद्यां स्थले नगे वाडवश्यमुभयोः कालयोः प्रतिक्रमणं मया क्रियते ।' राजाऽवक्-'अनेकवैरिणः सन्ति, कदाचित्तैर्मारितः स्यात्तदा का गतिः । स प्राह
धर्म कुर्वतो यदि मे मरणं, तदा स्वर्ग एव स्यात् , तेन मया तत्रैव कृतं ।' ततो राजा हृष्टः। यत्रारण्ये वने वा श्रेष्ठी धर्म कर्तु तिष्ठति, तत्र & सुरत्राणस्यादेशात्सहस्रमितभटप्रमाणं सैन्यं तं रक्षति । अन्यदा दिहयां सुरत्राणेन कञ्चिद्दोषमुद्भाव्य सर्वाङ्गनिगडितः स कारागृहे क्षिप्तः। लङ्घने जातेऽपि सायं (द्विसन्ध्यं) प्रतिक्रमणार्थ रक्षकेभ्यः स्वर्णटङ्ककमर्पयित्वा घटीद्वयावधि हस्तनिगडकर्षणपूर्व प्रतिक्रमणं चक्रे । एवं मासेन
॥८॥ दापष्ठिं सौवर्णटकान् प्रतिक्रमणार्थमेव प्रददे । तन्नियमदायस्वरूपं ज्ञात्वा तुष्टेन नृपेण मुक्तः, परिधापितः, प्राग्वद्विशिष्य सम्मानितश्च ।
करनाल
| २-धर्मस्य पोष-पुष्टिं धत्त इति पौषधोऽवश्यमष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषः। स चाऽऽहार १शरीरसत्कार २ गृहव्यापार ३ अब्रह्म ४ निवृत्तिरूपश्चतुर्विधो बोध्यः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umalagyanbhandar.com