________________
蒸蒸蒸發器馨馨馨馨馨藥器樂器樂樂藥樂樂器器器器蒸蒸發
शान्त्योदयोऽखिलदयश्वरणोदयाढ्यो, ध्यानी प्रभो गजप्रससुदयी विमायी। अद्योतयत्तकपदं गगनं तु इवार्कः, श्रीमान्महोदयबुधो जिनवाग्विलासी ॥ ६ ॥ द्राक्षाऽमृतेक्षुमधुराभिरिहाङ्गिचेतः, प्रामोदयन्मुनिवरः कमनीयवाग्भिः । योऽसौ तदीयगुरुपीठमलञ्चकार-स्तज्ज्ञः प्रमोदविमलः शमतोदधीन्दुः ॥७॥ चारित्र्यरत्नरुचिमुष्टसृतान्धकार-स्तत्पादपीठगिरिचूलविशोभिसिंहः । पंन्यासरत्नमणिवैमलयोगिराजो, जज्ञे जिनाधिकलतामरसाभिनन्दी ॥ ८ ॥ तद्धाग्नि खेऽर्क इव चारुप्रतापधामा, प्रोद्योतवैमलमुनियुषराडू विरेजे । उद्योतितञ्जिनविभूदितधर्मवम, येनात्र देहिनिकरेऽखिलसातकारि ॥९॥ तत्पट्टनन्दनवनोत्तमनाकिशारखी, पंन्यासदानविमलो व्यधराड्-बभूव । यज्ज्ञानपावननदीजलपानपूताः के नो बभूवुरिह शान्तमनोऽभिलाषाः ॥ १० ॥ तत्पाटविन्ध्यकरिराजमहातपस्वी, श्रीमद्दयाविमलविज्ञमुनिर्बभूव । प्रद्युम्नशस्त्ररमणीगणवेष्टितोऽपि, ब्रह्मव्रतं न च जहौ किलयो मनस्वी ॥ ११ ॥ तत्पट्टमानसचरद्वरराजहंसः, सौभाग्यवैमलमुनीश्वरविज्ञविज्ञः । जझे च यो विमलबोधजनावतारी, शान्तः शुचिः शिवमतिर्विममः परार्थी ॥ १२ ॥
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com